________________
५-२२
अत्राह । उपपन्नं तावदेतत्सोपक्रमाणामपवर्तनीयायुषाम् । अथानपवत्यार्युषां कथमिति । अत्रोच्यते । तेषामपि जीवितमरणोपग्रहः पुद्गलानामुपकारः । कथमिति चेत्तदुच्यते । कर्मणः स्थितिक्षयाभ्याम् । कर्म हि पौद्गलमिति । आहारश्च त्रिविधः सर्वेषामेवोपकुरुते । किं कारणम् । शरीरस्थित्युपचयबलवृद्धिप्रीत्यर्थं ह्याहार इति ।। २०॥ .. अत्राह । गृह्णीमस्तावद्धर्माधर्माकाशपुद्गला जीवद्रव्याणामुपकुर्वन्तीति । अथ जीवानां क उपकार इति । अत्रोच्यते -
परस्परोपग्रहो जीवानाम् ॥ २१ ॥ परस्परस्य 'हिताहितोपदेशाभ्यामुपग्रहो जीवानामिति ॥२१॥ अत्राह । अथ कालस्योपकारः क इति । अत्रोच्यते
वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥२२॥ तद्यथा-सर्वभावानां वर्तना कालाश्रया वृत्तिः । वर्तना उत्पत्तिः स्थिति प्रथमसमयाश्रया इत्यर्थः ॥ परिणामो द्विविधः । अनादिरादिमांश्च । तं परस्ताद्वक्ष्यामः ।। क्रिया गतिः । सा त्रिविधा । प्रयोगगतिर्विनसा गतिमिश्रि केति ॥परत्वापरत्वे त्रिविधे प्रशंसाकृते क्षेत्रकृते कालकृते इति । तत्र प्रशंसाकृते परो धर्मः परं ज्ञानमपरोऽधर्मोऽपरमज्ञानमिति । क्षेत्रकृते एकदिक्कालावस्थितयोर्विप्रकृष्टः परो भवति, सन्निकृष्टोऽपरः । कालकृते द्विरष्टवर्षाद्वर्षशतिकः परो भवति, वर्षशतिकाद्विरष्टवर्षोऽपरो भवति । तदेवं प्रशंसाक्षेत्रकृते परत्वापरत्वे वर्जयित्वा वर्तनादीनि कालकृतानि कालस्योपकार इति ॥२२॥ ___ अत्राह, उक्तं भवता शरीरादीनि पुद्गलानामुपकार इति । पुद्गलानिति च
१. हितम्-उत्तरकाले वर्तमाने यत् क्षमं युक्तं न्याय्यं वा । तद्विपरीतमहितम् ।
हितप्रतिपादनेन अहितप्रतिषेधेन चोपग्रहं कुर्वन्ति । २. अ. ५ सू. ४२. ३. जीवपरिणामसंप्रयुक्ता शरीराहारवर्णगन्धरसस्पर्शसंस्थानविषया प्रयोगगतिः । ४. प्रयोगमन्तरेण केवला जीवद्रव्यस्वपरिणामरूपा परमाण्वभ्रेन्द्रधनुःपरिवेषादिरूपा _ विचित्रसंस्थाना विस्रसागतिः। ५. प्रयोगविस्रसाभ्यामुभयपरिणामरूपत्वात् जीवप्रयोगसहचरिता चेतनद्रव्यपरिणामात्
कुम्भस्तम्भादिविषया मिश्रिका गतिः । ६. अ. ५ सू. १९.