SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः ग्दृष्ट्यन्तानां सामान्योक्तं क्षेत्रम् । तेजःपद्मलेश्यानां मिथ्याहप्ट्याद्यप्रमत्तान्तानां लोकस्यासंख्येयभागः । शुक्ललेश्यानां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां लोकस्यासंख्येयभागः। सयोगकेवलिनामलेश्यानां च सामान्योक्तं क्षेत्रम् ॥ ( ११ ) भव्यानुवादेन भव्यानां चतुर्दशानां सामान्योक्तं क्षेत्रम् । अभव्यानां सर्वलोकः ॥ ( १२ ) सम्यक्त्वानुवादेन - क्षायिकसम्यग्दृष्टीनामसँयतसम्यग्दृप्ट्याद्ययोगकेवल्यन्तानां क्षायोपशमिकसम्यग्दृष्टीनामसँयतसम्यग्दृप्ट्याद्यप्रमत्तान्तानामोपशमिकसम्यग्दृष्टीनामसँयतसम्यग्दृष्ट्याद्युपशा-- न्तकषायान्तानां सासादनसम्यग्दृष्टीनां सम्यङ्मिथ्यादृष्टीनां च सामान्योक्तं क्षेत्रम् (१३) सज्ञानुवादेन-- सचिनां चक्षुर्दर्शनिवत् । असज्ञिनां सर्वलोकः । तदुभयव्यपदेशरहितानां सामान्योक्तं क्षेत्रम् ॥ (१४) आहारानुवादेन- आहारकाणां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तं क्षेत्रम् । सयोगकेवलिनां लोकस्यासंख्येयभागः । अनाहारकाणां मिथ्यादृष्टिसासादनसम्यग्दृष्ट्यसँयतसम्यग्दृष्ट्ययोगकेवलिनां सामान्योक्तं क्षेत्रम् । सयोगकेवलिनां लोकस्यासंख्येयभागाः सर्वलोको वा ॥ क्षेत्रनिर्णयः कृतः ॥ स्पर्शनमुच्यते- तद् द्विविधम् । सामान्येन विशेषेण च ॥ सामान्येन तावत्- मिथ्यादृष्टिभिः सर्वलोकः १ ये न संज्ञिनो नाप्यसंज्ञिनस्तेषाम् ॥ २ समुद्धातरहितत्वादित्यर्थः ॥ ३ असंख्यातयोजनकोट्याकाशप्रदेशः परिमाणरज्जुस्तावदुच्यते । तल्लक्षणसमचतुरस्ररज्जुत्रिचत्वारिंशदधिकशतत्रयपरिमाणो ले.क उच्यते । स लोको मिथ्यादृष्टिभिः सर्व स्पृष्टः । इत्युक्तलक्षणे लोके स्वस्थानविहारः परस्थानविहारो मारणान्तिकपमुद्धातश्च प्राणिभिर्विधीयते ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy