SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २२२ सर्वार्थसिद्धिः जठराग्न्याशयानुरूपाहारग्रहणवत्तीव्रमन्दमध्यमकषायाशयानुरूपस्थित्यनुभवविशेषप्रतिपय॑थम् ॥ अमूर्तिरहस्त आत्मा कथं कर्मादत्त इति चोदितः सन् जीव इत्याह ॥ जीवनाज्जीवः प्राणधारणादायुःसम्बन्धान्नायुविरहादिति ॥ कर्मयोग्यानिति लघुनिर्देशासिद्धेः। कर्मणो योग्यानिति पृथग्विभक्त्युच्चारणं वाक्यान्तरज्ञापनार्थम् ॥ किं पुनस्तद्वाक्यान्तरम् । कर्मणो जीवः सकषायो भवतीत्येकं वाक्यम् । एतदुक्तं भवति- कर्मण इति हेतुनिर्देशः कर्मणो हेतोजीवः सकषायो भवति नाकर्मकस्य कषायलेपोऽस्ति ततो जीवकर्मणोरनादिसम्बन्ध इत्युक्तं भवति ॥ तेनामूर्तो जीवो मूर्तेन कर्मणा कथं बध्यते इति चोद्यमपाकृतं भवति ॥ इतरथा हि बन्धस्यादिमत्त्वे आत्यन्तिकी शुद्धिं दधतः सिद्धस्येव बन्धाभावः प्रसज्येत ॥ द्वितीयं वाक्यं कर्मणो योग्यान् पुद्गलानादत्त इति । अर्थवशाद्विभक्तिपरिणाम इति पूर्व हेतुसम्बन्धं त्यक्त्वा षष्ठीसम्बन्ध. मुपैति कर्मणो योग्यानिति ॥ पुद्गलवचनं कर्मणस्तादात्म्यख्यापनार्थम् । तेनात्मगुणोऽदृष्टो निराकृतो भवति तस्य संसारहेतुत्वानुपपत्तेः ।। आदत्त इति हेतुहेतुमद्भावख्यापनार्थम् । अतो मिथ्यादर्शनाद्यावेशादार्दीकृतस्यात्मनःसर्वतो योगविशेषात्तेषां सूक्ष्मैकक्षेत्रावगाहिनामनन्तानन्तप्रदेशानां पुद्गलानां कर्मभावयोग्यानामविभागेनोपश्लेषो बन्ध इत्याख्यायते ॥ यथा भाजनविशेषे क्षिप्तानां विविधरसबीजपुष्पफलानां मदिराभावेन परिणामस्तथा पुद्गलानामप्यात्मनि स्थितानां योगकषायवशात्कर्मभावेन परिणामो वेदितव्यः ॥ "स" वचनमन्यनिवृत्त्यर्थम् । स एष बम्धो नान्योऽस्तीति । तेन गुणगुणिबन्धो निवर्तितो भवति ॥ कर्मादिसाधनो बन्धशब्दो व्याख्येयः ।। ___ आह किमयं बन्ध एकरूप एव, आहोस्वित्प्रकारा अप्यस्य सन्तीत्यत इदमुच्यते
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy