SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ HLEF सर्वार्थसिद्धिः सासंस्तवयोरितरीनतिचारानन्तव्य पञ्चैवातिचारा उक्ताः ॥ आह सम्यग्दृष्टेरतिचारा उक्ताः किमेवं व्रतशीलेष्वपि भवन्तीति । ओमित्युक्त्वा. तदतिचारसंख्यानिर्देशार्थमाह..॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ २४ ॥ - ब्रतानि च शीलानि च व्रतशीलानि तेषु व्रतशीलेषु । शीलग्रहणमनर्थकम्, व्रतग्रहणेनैव सिद्धेः ॥ नानर्थकम् - विशे. पज्ञापनार्थ व्रतपरिरक्षणार्थं शीलमिति दिग्विरत्यादीनीहः शील. ग्रहणेन गृह्यन्ते ॥ ... अगार्यधिकारात् अगारिणो व्रतशीलेषु पंच पंचातिचारा वक्ष्यमाणा यथाक्रमं वेदितव्याः । तद्यथा- आद्यस्य ताबदहिंसात्तस्य॥ बन्धवधच्छेदातिभारारोपणान्नपाननिरोधाः ॥२५॥ अभिमतदेशगतिनिरोधहेतुबन्धः ॥ दण्डकशावेत्रादिभिरभिघातः प्राणिनां वधः। न प्राणव्यपरोपणम् । ततः प्रागेवास्य विनिवृत्तत्त्वात् ॥ कर्णनासिकादीनामवयवानामपनयनं छेदः ॥ न्याय्यभारादतिरिक्तवाहनमतिमारारोपणम् ॥ गवादीनां क्षुत्पिपा. साबाधाकरणमन्नपाननिरोधः ॥ एते पंचाहिंसाणुव्रतस्यातिचाराः ॥ ॥ मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रिया" न्यासापहारसाकारमन्त्रभेदाः ॥ २६ ॥ अभ्युदयनिःश्रेयसार्थेषु क्रियाविशेषेषु अन्यस्यान्यथा प्रवतनमतिसन्धापनं वा मिथ्योपदेशः । यत्स्त्रीपुंसाभ्यामेकान्तेऽनुष्ठितस्य क्रियाविशेषस्य . प्रकाशनं तद्रहोभ्याख्यानं वेदितव्यम् । अन्येनानुक्तं यत्किंचित्परप्रयोगवशादेवं तेनोक्तमनुष्ठितमिति वंच.
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy