SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ पंचमोऽध्यायः १८१ मयं कालः पृथगुच्यते । यत्रैव धर्मादय उक्तास्तत्रैवायमपि वक्तव्यः । अजीवकाया धर्माधर्माकाशकालपुद्गला इति ॥ नैवं शंक्यम् । तत्रोपदेशे, सति ..कायत्वमस्य - स्यात् । नेष्यते च मुख्योपचारप्रदेशप्रचयकल्पनाभावात् ॥ धर्मादीनां तावन्मुख्यप्रदे. शपचय उक्तः; असंख्येयाः प्रदेशा इत्येवमादिना ॥ अणोरप्येकप्रदेशस्य पूर्वोत्तरप्रज्ञापननयापेक्षयोपचारकल्पनया प्रदेशप्रचय उक्तः । कालस्य पुनद्वैधाऽपि प्रदेशप्रचयकल्पना नास्तीत्यकायत्वम् ॥ अपि च तत्र पाठे निष्क्रियाणि चेत्यत्र धर्मादीनामाकाशान्तानां निष्क्रियत्वे प्रतिपादिते इतरेषां जीवपुद्गलादीनां सक्रियत्वप्राप्तिवत्कालस्यापि सक्रियत्वं स्यात् ॥ अथाकाशात्प्राकाल उद्दिश्येत ? तन्न आ आकाशादेकद्रव्याणीत्येकद्रव्यत्वमस्य स्यात् । तस्मात्पृथगिह कालोद्देशः क्रियते ॥ अनेकद्रव्यत्वे सति किमस्य प्रमाणं १ । लोकाकाशस्य यावन्तः प्रदेशास्तावन्तः कालाणवो निष्क्रिया एकैकाकाशप्रदेशे एकैकवृत्त्या लोकं व्याप्य व्यवस्थिताः ॥ उक्तं च-ळोगागासपदेसे एकेके जे छिया हु एकेके ।। रयणाणं रासीविव ते काळाणू असंखव्वाणि ॥ १ ॥ रूपादिगुणविरहादमूर्ताः ॥ वर्तनालक्षणस्य मुख्यस्य कालस्य प्रेमाणमुक्तम् । परि-णामादिगम्यस्य व्यवहारकालस्य किं प्रमाणमित्यत इदमुच्यते--- ॥ सोऽनन्तसमयः ॥४०॥ - साम्प्रतिकस्यैकसमायिकत्वेऽपि अतीता अनागताश्च समया अनन्ता इति कृत्वा अनन्तसमय इत्युच्यते ॥ अथवा मुख्यस्यैव कालस्य प्रमाणावधारणार्थमिदमुच्यते ॥ अनन्तपर्यायवतनाहेतुत्वादेकोऽपि कालाणुरनन्त इत्युपचर्यते । समयः पुनः परमनिरुद्धः कालांशस्तत्पचयविशेष आवलिकादिरवगन्तव्यः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy