SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १६२ सर्वार्थसिद्धिः कथं लोकस्यासंख्येयभागादिषु वृत्तिः। ननु सर्वलोकव्यायैव भवितव्यामित्यत्रोच्यते ॥ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ . अमूर्तस्वभावस्यात्मनोऽनादिबन्धप्रत्येकत्वात् कथञ्चिन्मूर्ततां बिभ्रतः कार्मणशरीरवशान्महदणु च शरीरमधितिष्ठतस्तद्वशात्प्रदेशसंहरणविसर्पणस्वभावस्य तावत्प्रमाणतायां सत्यां असंख्येयभागादिषु वृत्तिरुपपद्यते, प्रदीपवत् ॥ यथा निरावरणव्योमप्रदेशेऽनवधृतप्रकाशपरिमाणस्य प्रदीपस्य शरावमानिकापवरकाद्यावरणवशातत्परिमाणतेति ॥ अत्राह धर्मादीनामन्योन्यप्रदेशानुप्रवेशात्सङ्करे सति, एकत्वं प्राप्नोतीति ॥ तन्न । परस्परमत्यन्तसँश्लेषे सत्यपि स्वभावं न जहति ॥ उक्तं- अण्णोणं पविसंता दिता ओगासमण्णमण्णस्स || मेलंता विय णिचं सग सम्भावं ण जहंति॥१॥ : यद्येवं धर्मादीनां स्वभावभेद उच्यतामित्यत आह ॥ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥१७॥ . देशान्तरप्राप्तिहेतुर्गतिः । तद्विपरीता स्थितिः। उपगृह्यत इत्युपग्रहः । गतिश्च स्थितिश्च गतिस्थिती। गतिस्थिती एव उपग्रहौ गतिस्थित्युपग्रहौ ॥ धर्माधर्मयोरिति कर्तृनिर्देशः ॥ उपक्रियत इत्युपकारः । कः पुनरसौ ? गत्युपग्रहः स्थित्युपग्रहश्च ॥ यद्येवं द्वित्वनिर्देशः प्राप्नोति ? । नैष दोषः । सामा. न्येन व्युत्पादित उपात्तसंख्यः शब्दान्तरसम्बन्धे सत्यपि न पूर्वोपात्तां संख्यां जहाति ॥ यथा- साधोः कार्य तपःश्रुते इति ॥ एतदुक्तं भवति- गतिपरिणामिनां जीवपुद्गलानां गत्युपग्रहे कर्तव्ये धर्मास्तिकायः साधारणाश्रयो जलवन्मत्स्यगमने ॥ तथा स्थितिपरिणामिनां जीवपुद्गलानां स्थित्युपग्रहे कर्तव्ये अधर्मा
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy