SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १४६ सर्वार्थसिद्धिः -- आलयो येषां ते ब्रह्मलोकालया लौकान्तिका देवा वेदितव्याः । यद्येवं सर्वेषां ब्रह्मलोकालयानां देवानां लौकान्तिकत्वं प्रसक्तं ? । अन्वर्थसञ्ज्ञाग्रहणाददोषः ॥ ब्रह्मलोको लोकः तस्यान्तो लोकान्तः तस्मिन्भवा लौकान्तिका इति न सर्वेषां ग्रहणम् । तेषां हि विमानानि ब्रह्मलोकस्यान्तेषु स्थितानि ॥ अथवा जन्मजरामरणाकीर्णो लोकः संसारः तस्यान्तो लोकान्तः । लोकान्ते भवा लौकान्तिकाः ते सर्वे परीतसंसाराः । ततश्च्युता एकं गर्भावासं प्राप्य परिनिर्वास्यन्ति ।। तेषां सामान्येनोपदिष्टानां भेदप्रदर्शनार्थमाह॥ सारस्वतादित्यवह्नयरुणगर्दतोय तुषिताव्याबाधारिष्टाश्च ॥ २५ ॥ क्व इमे सारखतादयः । अष्टास्वपि पूर्वोत्तरादिषु दिक्षु यथाक्रममेते सारस्वतादयो देवगणा वेदितव्याः । तद्यथा- पूर्वोतरकोणे सारस्वतविमानं, पूर्वस्यां दिशि आदित्यविमानं, पूर्वदक्षिणस्यां दिशि वह्निविमानं, दक्षिणस्यां दिशि अरुणविमानं, दक्षिणापरकोणे गर्दतोयविमानं, अपरस्यां दिशि तुषितविमानं, उत्तरापरस्यां दिशि अव्याबाधविमानं, उत्तरस्यां दिशि अरिष्टवि. मानम् ॥ चशब्दसमुच्चितास्तेषामन्तरे द्वौ द्वौ देवगणौ ॥ तद्यथासारस्वतादित्यान्तरे अग्न्याभसूर्याभाः। आदित्यस्य च वहेश्चान्तरे चन्द्रामसत्याभाः। वयरुणान्तराले श्रेयस्करक्षेमकराः । अरुणगदेतोयान्तराले वृषभेष्टकामचराः । गर्दतोयतुषितमध्ये निर्माणरजोदिगन्तरक्षिताः। तुषिताव्याबाधमध्ये आत्मरक्षितसर्वरक्षिताः । अव्याबाधारिष्टान्तराले मरुद्वसवः । अरिष्टसारस्वतान्तराले अश्वविश्वाः ।। सर्वे एते स्वतन्त्रा हीनाधिकत्वाभावात्, विषयरतिविरहाद्देवर्षयः,
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy