SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १४२ सर्वार्थसिद्धिः कल्पेषूपपन्नाः कल्पोपपन्नाः कल्पानतीताः कल्पातीताश्चेति द्विविधा वैमानिका ॥ तेषामवस्थानविशेषनिपिनार्थमाह-- ॥ उपर्युपरि ॥ १८॥ किमर्थमिदमुच्यते ? तिर्यगवस्थितिप्रतिषेधार्थमुच्यते ॥ न ज्योतिष्कवत्तिर्यगवास्थताः । न व्यन्तरवदसमावस्थितयः । उपर्युपरीत्युच्यन्ते ॥ के ते? कल्पाः ॥ यद्येवं, कियत्सु कल्पविमानेषु ते देवा भवन्तीत्यत आह-- ॥ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्ठशुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु . विजयवैजयन्तजयन्तापरााजतेषु सर्वार्थसिध्दौ च ॥ १९ ॥ कथमेषां सौधर्मादिशब्दानां कल्पाभिधानं ? चातुरर्थिकेनाणा , स्वभावतो वा कल्पस्याभिधानं भवति ॥ अथ कथमि. न्द्राभिधानं ? स्वभावतः साहचर्याद्वा ॥ तत्कथमिति चेदुच्यतेसुधर्मा नाम सभा, साऽस्मिन्नस्तीति सौधर्मः कल्पः । तदस्मिन्नस्तीत्यण् । तत्कल्पसाहचर्यादिन्द्रोऽपि सौधर्मः ॥ ईशानो नाम इन्द्रः स्वभावतः । ईशानस्य निवासः कल्प ऐशानस्तस्य निवास इत्यण् । तत्साहचर्यादिन्द्रोऽपि ऐशानः ॥ सनत्कुमारो नाम इन्द्रः स्वभावतः । तस्य निवास इत्यण् । सानत्कुमारः कल्पः । तत्साहचर्यादिन्द्रोऽपि सानत्कुमारः ॥ माहेन्द्रो नामेन्द्रः स्वभावतस्तस्य निवासः कल्पो माहेन्द्रः । तत्साहचर्यादिन्द्रोऽपि माहेन्द्रः ।।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy