SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिः ॥ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥ ७ ॥ जम्बूद्वीपादयो द्वीपाः । लवणोदादयः समुद्राः । यानि लोके शुभानि नामानि तन्नामानस्ते ॥ तद्यथा - १ जम्बूद्वीपो द्वीपः । लवणोदः समुद्रः । २ धातकीखण्डो द्वीपः । कालोदः समुद्रः । ३ पुष्करवरो द्वीपः । पुष्करवरः समुद्रः । ४ वारुणीवरो द्वीपः । वारुणीवरः समुद्रः । ५ क्षीरवरो द्वीपः । क्षीरवरः समुद्रः । ६ घृतवरो द्वीपः । ७ इक्षुवरो द्वीपः । इक्षुवरः समुद्रः । ८ नन्दीश्वरो द्वीपः । नन्दीश्वरवरः समुद्रः । ९ अरुणवरो द्वीपः । अरुणवरः समुद्रः । इत्येवमसंख्येया द्वीपसमुद्राः स्वयम्भूरमणपर्यन्ता वेदितव्याः । अमीषां विष्कम्भसन्निवेशसंस्थानविशेषप्रतिपत्त्यर्थमाह घृतवरः समुद्रः । ॥ द्विर्द्धिर्विष्कम्भाः पूर्वपूर्व ११८ -- परिक्षेपिणो वलयाकृतयः ॥ ८ ॥ द्विद्विरिति वीप्सायां वृत्तिवचनं विष्कम्भद्विगुणत्वव्याप्यर्थम् ॥ आद्यस्य द्वीपस्य यो विष्कम्भः तद्विगुणविष्कम्भो लबणजलधिः । तद्विगुणविष्कम्भो द्वितीयो द्वीपः । तद्विगुणविष्कम्भो द्वितीयो जलधिरिति ॥ द्विर्द्धिर्विष्कम्भो येषां ते द्विद्विर्विष्कम्भाः ॥ पूर्वपूर्वपरिक्षेपिवचनं ग्रामनगरादिवद्विनिवेशो मा बिज्ञायीति ॥ वलयाकृतिवचनं चतुरस्रादिसंस्थानान्तरनिवृत्त्यर्थम् ॥ अल्लाह, जम्बूद्वीपस्य प्रदेशसंस्थानविष्कम्भा वक्तव्यास्तन्मूलत्वादितरविष्कम्भादिविज्ञानस्येत्युच्यते
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy