SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिः परमानन्तवीर्याव्याबाधसुखरूपेणैव तेषां तत्र वृत्तिः। केवलज्ञानरूपेणानन्तवीर्यवृत्तिवत् ॥ य उक्तः क्षायोपशमिको भावोऽष्टादशविकल्पस्तद्भेदनिरूपणार्थमाह॥ज्ञानाज्ञानदर्शनलब्धयश्चतुस्वित्रिपञ्चभेदाः सम्यक्त्वचारित्रसँयमासयमाश्च ॥ ५॥ चत्वारश्च त्रयश्च त्रयश्च पच्च च चतुस्वित्रिपञ्चभेदा यासां ताश्चतुस्वित्रिपञ्चभेदाः ॥ यथाक्रममित्यनुवर्तते । तेनाभिसम्बन्धाच्चतुरादिभिर्ज्ञानादीन्यभिसम्बन्ध्यन्ते । चत्वारि ज्ञानानि, त्रीण्यज्ञानानि, त्रीणि दर्शनानि, पञ्च लब्धय इति ॥ सर्वघातिस्पर्द्धकानामुदयक्षयात्तेषामेव सदुपशमाद्देशघातिस्पर्द्धकानामुदये क्षायोपशमिको भावो भवति ॥ तत्र ज्ञानादीनां वृत्तिः स्वावरणान्तरायक्षयोपशमाझ्याख्यातव्या ॥ सम्यक्त्वग्रहणेन वेद. कसम्यक्त्वं गृह्यते । अनन्तानुबन्धिकषायचतुष्टयस्य मिथ्यात्वसम्याड्मिथ्यात्वयोश्चोदयक्षयात्सदुपशमाच्च सम्यक्त्वस्य देशघातिस्पर्द्धकस्योदये तत्त्वार्थश्रद्धानं क्षायोपशमिकं सम्यक्त्वम् ॥ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानद्वादशकषायोदयक्षयात्सदुपशमाच सज्वलनकषायचतुष्टयान्यतमदेशघातिस्पर्द्धकोदये नोकषायनवकस्य यथासम्भवोदये च निवृत्तिपरिणामः आत्मनः क्षायोपशमिकं चारित्रम् ॥ अनन्तानुबन्ध्यप्रत्याख्यानकषायाष्टकोदयक्षयात्सदुपशमाच्च प्रत्याख्यानकषायोदये सज्वलनकषायदेशघातिस्पर्द्धकोदये नोकषायनवकस्य यथासम्भवोदये च विरताविरत - १ सम्यक्त्वप्रकृतेः दर्शनमोहनीयभेदरूपायाः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy