SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः स एषोऽवधिः षड्विकल्पः । कुतः१ अनुगाम्यननुगामिवर्द्धमानहीयमानावस्थितानवस्थितभेदात् ॥ कश्चिदवधिर्भास्करप्रकाशवद्गच्छन्तमनुगच्छति ॥ कश्चिन्नानुगच्छति तत्रैवातिपतति उन्मुग्धप्रश्नादेशिपुरुषवचनवत् ॥ अपरोऽवधिः अरणिनिर्मथनोत्पन्नशुष्कपत्रोपचीयमानेन्धननिचयसमिद्धपावकवत्सम्यग्दर्शनादिगुणविशुद्धिपरिणामसन्निधानाद्यत्परिमाण उत्पन्नस्ततो वर्द्धते असंख्येयलोकेभ्यः ॥ अपरोऽवधिः अन्तरितपरिच्छिन्नोपादानसन्तत्यमिशिखावत्सम्यग्दर्शनादिगुणहानिसंक्लेशपरिणामविवृद्धियोगाद्यत्परिमाण उत्पनस्ततो हीयते । आ अंगुलस्यासंख्येयभागात् ॥ इतरोऽवधिः सम्यग्दर्शनादिगुणावस्थानाद्यत्परिमाण उत्पन्नस्तत्परिमाण एवावतिष्ठते न हीयते नापि वर्द्धते लिङ्गवत् । आ भवक्षयादा केवलज्ञानोत्पत्तेर्वा ॥ अन्योऽवधिः सम्यग्दर्शनादिगुणहानिवृद्धियोगाद्यत्परिमाण उत्पन्नस्ततो वर्द्धते यावदनेन वर्धितव्यं, हीयते च यावदनेन हातव्यं वायुवेगप्रेरितजलोर्मिवत् ॥ एवं षड्विकल्पोऽ वधिर्भवति ॥ एवं व्याख्यातमवधिज्ञानं तदनन्तरमिदानी मनःपर्ययज्ञानं वक्तव्यं, तस्य भेदपुरःसरं लक्षणं व्याचिख्यासुरित्याह ॥ ऋजुविपुलमती मनःपर्ययः ॥ २३ ॥ ऋज्वी निर्वर्तिता प्रगुणा च । कस्मान्निर्वर्तिता ? वाकायमनस्कृतार्थस्य परमनोगतस्य विज्ञानात् । ऋज्वी मतिर्यस्य सोऽयं ऋजुमतिः ॥ अनिवर्तिता कुटिला च विपुला च । कस्मादनिर्वर्तिता ? वाक्कायमनस्कृतार्थस्य परकीयमनोगतस्य विज्ञानात् । विपुला मतिर्यस्य सोऽयं विपुलमतिः ॥ ऋजुमतिश्च विपुलमतिश्च ऋविपुलमती ॥ एकस्य मतिशब्दस्य गतार्थत्वादप्रयोगः। अथवा ऋजुश्च विपुला च ऋजुविपुले । ऋजुविपुले मती
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy