SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ मलितविस्तरा-सटीका -शुष्कज्ञानं न मुक्तिं नयति, परन्तु क्रियासहचरितं ज्ञानं वा ज्ञानव्याप्तिमती क्रिया मक्तिमंदिरं नेतुं समर्था. तस्माद् भो भो ज्ञानिमः ! प्रमादमवधूय सम्यक्रियायां प्रयत्नवन्तो भवन्तो भवन्तु निरन्तरम् । अथ व्याख्यानस्य सप्तममङगरूपकारणं 'अल्पभवते' ति नामक निर्वक्ति-: तथा अल्पभवता-व्याल्यांगं प्रदीर्घतरसंसारिणस्तत्त्वज्ञानायोगात्, तत्राल्पः-पुद्गलपराव दारतो भवः-संसारो यस्य तद्भावः अल्पभवता, नहि दीर्घदौर्गत्यभाक, चिन्तामणिऽरत्नावाप्तिहेतुः, एवमेव नानेकपुद्गलपरावर्तभाजो व्याल्यांगमिति समयसारविदः, अतः साकल्यत एतेषां व्याख्यासिद्धिः, तस्याः सम्यग्ज्ञानहेतुत्वादिति सूक्ष्मधिया लोचनीय मेतत्, ६०...'चिन्तामणिरत्नावाप्तिहेतुरिति चिन्त मणिरेव रत्नं मणिजातिप्रधानत्वाच्चिन्तामणिरत्न, पृथग् वा चिन्तामणिरत्ने, तस्य तयोर्वाऽवाप्तिहेतुः, अभाग्य इति कृत्वा । टी०...(७) यथा जिज्ञासादीनि व्याख्यानस्याङगरूप-कारणानि सन्ति तथा 'अल्पभवता' व्याख्याङममस्ति, अर्थात् संसारपरिमिति ाख्यानस्य कारणमस्ति यतः प्रदीर्घतरसंसारिणः = अपरिमित-अनंतजन्मादिप्रपंचसंसारवतस्तत्त्वज्ञानायोगोऽस्ति, तत्त्वज्ञानं प्रत्यनल्पानन्त-भवती, प्रतिबन्धिका, तत्त्वज्ञानजनिकाल्पभवता, व्याख्याकारणम्, · तन-अल्पभवतावाक्यघटकोऽल्प:परिमितः, पुद्गलपरावर्तात् (षडरा मिलित्वा-एकोत्सर्पिणी), तथा षडरा मिलित्वा विपरीतक्रमेणाऽवसर्पिण्येका, द्वादशाऽरा मिलित्वैकं कालचक्रं, अनन्तकालचक्र-प्रमाण एकः पुद्गलपरावर्तो भवति, तस्मात्) आरतः (अराणां समुदायरूपपुद्गलपरावर्तात्) अल्पः-(न्यून:-परिमितः)संसारो यस्य सोऽल्पभवः, तस्य भावोऽल्पभवता, (शब्दप्रवृत्तिनिमित्तं भावः 'समासकृत्तद्धितात्तु सम्बन्धे' इति वचनात्, समासात् सम्बन्धे भावप्रत्ययः अल्पभवतेत्यनाऽल्पसंसार-सम्बन्धो, भावप्रत्यार्थः) घरमपुद्गलपरावर्तान्त-विशिष्टकालः, अल्पभवतेत्युच्यते. दीर्घकालीनदौनत्यं (दुर्गतत्व-दौर्भाग्यदारिद्र्यं) भजते इति, दीर्घदौर्गत्यभाक्, चिन्तामणिनामकरत्नप्राप्तिकारको न भवति, अनेन प्रकारेणैकपुद्गलपरावर्ताधिकानेकपुद्गलपरावर्तरूपसंसार-भवादिप्रपंच-विशिष्ट-संसारिणो व्याख्याया अङगरूपकारणं न भवन्तीति शास्त्ररहस्यवेदिनो वदन्तीति । अत एवाल्पभविन:-शुक्लपाक्षिका:-आसन्नभव्या-लघुकमिणो जीवा तत्त्वज्ञानरूपभावचिन्तामणिरत्नं लभन्ते (जो जो कीरीयावाइ सो नियता सुक्कपखिया अंतो पुग्गल परीयट्टसु सिज्झई-(दशा श्रु. चू.) अन्यथा अभव्या-दूरभव्या-भवाभिनन्दिन:-कदाग्रहिण:-जिनगुर्वादिगाढाशातनाकारिणः स्वप्नेऽपि तत्त्वज्ञान चिन्तामणि न लभन्ते. तत्त्वज्ञानाभावेन व्याख्यानानधिकारः । 46
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy