SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका ननु चैकस्वभावाधीनत्वाद्वस्तुनः कथमनेकस्वभावाक्षेपिका चित्रा सम्पदेकन ? यदि परमपचारवृत्त्या स्यादित्याशवाह ____टी०...(९)तस्या-आत्मतुल्यपरफलकर्तृत्वरूपसम्पदः पदेभ्योऽन्यस्त्रिभिः पदैः (सव्वणूणं - सव्वदरिसीणं शिवमयलमरुयमणंतमक्खयमव्वाबाहमणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं णमो जिणाणं इति पदनयवती)प्रधानगुणापरिक्षयप्रधानफलाप्त्यभयाख्यसम्पदुक्ता-कथिता, यतः सर्वज्ञत्वसर्वदर्शित्वरूपप्रधानगुणा-परिक्षयेण अव्यावृत्त्या (क्षायिककेवलज्ञानकेवलदर्शनवत्वेनैव-नैव क्षायिककेवल ज्ञानकेवलदर्शनरहितत्वेन) प्रधानफलरूपशिवाचलारुखानंताक्षयाव्यावाधापुनरावृत्तिसिद्धिगतिनामकस्थानसम्प्राप्तो सत्यां जितभयत्वं-भयजेतृत्वमुपपन्नं भवति..... (एषा परमार्थतो मोक्षपदप्राप्तानां महतां भगवतां स्तुतिरूपा तथा परमार्थदृष्टया सत्यनित्यमोक्ष सुखस्वरूपगभिता, सव्वण्णूणमित्यादिपदवयवती नवमी मोक्षसम्पदपि कथ्यते) तथाचान्तिमसम्पवयी प्रथमस्तोतव्यसम्पत्सम्बन्धवत्येव यद्यपि ग्रन्थे स्पष्टाक्षर नं कथिता तपायपित्या द्वितीयासम्पदादिवदेषाऽन्तिमसम्पवयी प्रथमसम्पत्सम्बन्धवत्येवेति. ननु चैकस्वभावाधीनत्वाद्वस्तुनः कथमनेकस्वभावाक्षेपिका स्तोतव्यसम्पदादिका चित्र-सम्पदेकन ? यदि परमपचारक्त्त्या स्यात्-तथा चैकः स्वभावो वस्तुनः कथ्यते, वस्तुनो लक्षणं एकस्वभावाधीनत्वमत एकव्यक्तिविशेषवस्तुन्येकसम्पद् युज्यते, कथमनेकस्वभावाक्षेपिका-नानास्वभावाकर्षिका, स्तोतव्यसंपदादिका नवसंख्याका भिन्नभिन्नगुणधर्मस्वभावशक्तियुक्ता, चित्रा-साक्षात्पारंपर्येण वा मानाप्रकारा सम्पदेकन -अर्हद्भगवद्व्यक्तिविशेषे मुख्यवृत्त्या कथं ? यदि परमुफ्चारवृत्त्या गौणवृत्त्या स्यादित्याशक्याह-: इयं च चित्रा सम्पत्, अनन्तधात्मके वस्तुनि मुल्ये मुल्यवृत्त्या, ...इयं च, चिनेत्यादि'. टी०....अनन्तधर्मात्मकवस्तुनि-अर्हद्भगवद्रूपमुख्यवस्तुन्येतत्स्तोतव्यसम्पदादि-नवविधा -चित्रा नानाधर्मवत्यः, मुख्यवृत्त्या-अयंयोगव्यवच्छेदकविशेषणरूपतत्तद्धर्मवाचकशब्दतः कथ्यमानया घटन्ते न तत्र शडकावकाशः, (अथवेयमन्तिमा प्रधानगुणाऽपरिक्षयप्रधानफलाप्त्यभयसम्पत्, प्रधानगुण-अक्षयस्थिति-जितभयत्वरूपोत्कृष्टपर्यन्तफलरूप-धर्मत्रयवती चित्रा-(अनेकधर्मावच्छिन्ना) सम्पत्, अनन्तधर्मात्मकमुख्यवस्तुरूपसिद्धारमात्मनि पूर्वोक्तधर्मत्रयस्य मुख्यत्वाद् धर्मत्रयविशिष्टसिद्धार्हत्-परमात्मनः स्तुति मुरुषवृत्त्या मुख्या ज्ञेया.) प्रणिपातदण्डकसूत्ररूपशकस्तवे, दर्शितानां सम्पदा क्रमोपन्यासे कि कारणमस्ति ? ताद शशङकानिरासायाह-: स्तवप्रवृत्तिश्च प्रेक्षापूर्वकारिणामिति संदर्शनार्थमेवमुपन्यासोऽस्य सूत्रस्य, स्तोतव्यनिमित्तोपलब्धौ तन्निमिताबन्वेषणयोगादिति प्रस्तावमा ।
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy