SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका (प्रथमसम्पदमेव विशेषेण स्पष्टवितुमियं, उपयोगसम्पदस्ति, तीर्थकरः प्रभुः सामान्येन सर्वोत्र परमार्थकरणद्वारोपयोगी भवत्यतोऽयोगव्यवच्छेदारकः पञ्चभिविशेषणः परार्थकरणरूप उपयोगः समाविष्टो वर्तते) पंचमी सामान्येनोपयोगसम्पदो हेतुसम्पदं कथयतितदपरस्तु पञ्चभिरस्या एवोपयोगसम्पदो हेतुसम्पत्, अभयदानचक्षुनिमार्गदानशरणदानबोधिदानः परार्थसिद्धः, टी०...(५) तस्याः-सामान्येनोपयोगसम्पदःपदेभ्योऽन्यैरपरैस्तु पञ्चभिः पदैः (अभयदयाणं, चक्खुदयाणं, मग्गदयाणं, सरणदयाणं, बोहिदयाणमिति पदपञ्चकवती,)अस्या एवोपयोगसम्पदो = लोकोत्तमादि-पदपञ्चकवत्याः सामान्येनोपयोगसम्पद एव-नान्यसम्पदः, हेतुसम्पद, यतोऽभयदानचक्षुर्दानमार्गदानशरणदानबोधिदानहेतुभिः परार्थस्य (पूर्वोक्तोपयोगस्य) सिद्धिर्भवतीति, अस्यां सम्पदि श्रीतीर्थंकरप्रभोः शक्तीनां हेतुविशेषद्वारा विशेषत उपयोगो दर्शितः, (एतस्याः सामान्येनोपयोगसम्पदः कारणं 'अभयदयाणं' इत्यादिपदेषु पञ्चसु दर्शितमतस्तत्पदपञ्चकवती 'तद्धतुसंपद' उपयोगसम्पद एवार्थ हेतुसद्भावापेक्षया दीपयति सा हेतुसम्पदिति.) षष्ठी स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पत् कथ्यते- - तवन्यस्तु पञ्चभिः स्तोतव्यसम्पद एवं विशेषेणोपयोगसम्पत्, धर्मवत्वधर्मदेशकत्वधर्मनायकत्वधम्मसारपित्वधर्मवरचातुरन्तचक्रवत्तित्वेभ्यस्तद्विशेषोपयोगात्, ____टी०...(६) तस्याः-सामान्येनोपयोगसम्पदो हेतुसम्पदः पदेभ्योऽन्यः पञ्चभिः- पदैः (धम्मदयां, धम्मदेसयाणं, धम्मनायगाणं, धम्मसारहीणं, धम्मवत्पाउरंतचक्कवट्टीण' मिति पदपञ्चकवती) स्तोतव्यसम्पत्सम्बन्धिन्येव-नान्यसम्पदः, विशेषेणोपयोगसम्पत्, यतो धर्मदत्वातं (धर्मदानतः) धर्मदेशकत्वात् (धर्मदेशनातः) धर्मनायकत्वात् (धर्माधिपत्यतः) धर्मसारथित्वतः (धर्मरथचालकत्वरक्षकत्वादितः). धर्मवरचातुरन्तचक्रवर्तित्वतः .. (धर्मराज्यसार्वभौमत्वतः अहंद्भगवद्रूपस्तोतव्यसम्पत्-संबंधिनी विशेषेणोपयोगवत्त्वेन विशषोपयोगसम्पत् कथ्यतेऽर्थादहन्तो भगवन्तो धर्मक्षेत्रेषु कुन कुन किं कि कार्य (उपयोगविशेष) कुर्वन्ति तद् दर्शयितुं सम्पद्यस्यां पञ्चभिः पदैर्वणितमस्ति..... (उपयोगसम्पदोऽयंगुणं दीपयितुमर्थविशर्षे ज्ञापयितुमर्थात् सफारणं स्तोतव्यस्य स्वरूपकथनस्य संभवेन सविशेषहेतूपयोगसम्पदपि ज्ञेया, एवं च प्रथम-सम्पद एवं विशेषोपयोग-कार्यरूपोऽर्थों धर्मदादिपदपञ्चके विद्यतेऽत एषा विशेषोपयोगसम्पत्कथ्यते.) अथ सप्तमी द्विपदी स्तोतव्यसंपद एव सकारणां स्वरूपसम्पदं कथयति-:. 29
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy