SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ मलितक्रिटीका (५) पाठोपयोगः = पाठे - अर्थानुसन्धान-सहित - चैत्यवंदनादि - सूतगतपाठे एवोपयोगो - नित्योपयुक्तता कर्त्तव्येति विधिपरतागमकं लिंगम्. उचितवृत्तेरधिकारिणः पंच लिंगानि = तथा = बहुमानिविधिपरयोरधिकारिणो र्यथा पंचलिंगानि तथा उचितवृत्तेरधिकारिणः पंच गमकलिंगानि (१) लोकप्रियत्वं = उचितवृत्त्या वृत्ति कुर्व्वन् सकललोकस्य प्रीति संपादयति सकललोक-प्रेमसंपादनं, उचितवृत्तिज्ञापकं लिंगम्. (२) अर्गाहिता क्रिया = बलवदनिष्टनरकाद्यपायकारक - द्यूतादि- व्यसन - सप्तक जीवहसादि - भयंकर - पापव्यापारत्यागपूर्वक - न्यास सम्पन्न - जीवनरूपक्रिया, अगर्हित- अनिन्दित - क्रिया, उचितवृत्तिगमकं लिगम्. (३) व्यसने धैर्यम् = परितो विपदांवार्दलैरभिभूतोऽपि दीनतां विमुच्य वीरत्वरक्षणमथवा विरुद्धहेतूनां सत्त्वेऽप्यविकृतचेतस्कता, धीरत्वम् - धैर्यम् - उचितवृत्तिताया ज्ञापकं लिंगम्. ( ४ ) शक्तितस्त्यागः = यथाशक्ति त्याग:- दानप्रत्याख्यानाभिग्रहतप आदिरूपस्त्यागः, एवमेतदुचि - तवृत्तित्वं द्योतयति. (५) लब्धलक्षत्वम् - लब्धं निर्णीतं सर्वत्राऽनुष्ठाने लक्षं - पर्यन्तसाध्यं येन स तथा, तद्भावस्तत्त्वं यथा 'यस्तु गुणो दोषकरो न स गुणो दोषमेव तं जानीहि । अगुणोऽपि खलु भवति गुणो, विनिश्चयः (पर्यवसानं ) सुन्दरो यत्रेति ॥ अर्थात् चैत्यवंदनादि सर्वक्रियासु पर्यवसितसाध्यविनिश्चयं कुर्यादिति, उचितवृत्तिताद्योतकमिदं लिंगम्. एभिस्तदधिकारितामवेत्येतदध्यापने प्रवर्त्तेत, अन्यथा दोष इत्युक्तं । , टी.....पूर्वोक्त रेभिरधिकारि लिंगेश्चैत्यवंदनपाठादेरधिकारिता मवेत्य- ज्ञात्वा एतस्य चैत्यवंदनसूत्रादेरध्यापने पाठने प्रवृत्ति कुर्यादिति, 'अन्यथा' एभिलिङ्गैश्चैत्यवंदन पाठादेरधिकारिता मनवेत्येतस्यचैत्यवंदनसूत्रादेरध्यापने दोषः - 'सर्वमपि यतो दानं दत्तं पाते दायकानां हितमितरथाऽनर्थजनकं, प्रधानदानं श्रुतदानं' अर्थादनधिकारिणां पाठे दोष इति पूर्वोक्तमेवेति . आह-क इवानधिकारिप्रयोग दोषः ? इति, टी.... ( पूर्वपक्ष: ) - अनधिकारिणां - अयोग्यानां चैत्यवंदनसूत्रादेरध्यापनादि-प्रयोगे दृष्टांतं दर्शयित्वा किं प्रकारको दोष: ? इति प्रश्ने, उच्यते - सह्यचिन्त्यचिन्तामणिकल्पमनेकानेक भवशतसहस्रोपात्तानिष्टदुष्ट ष्टकर्म्म राशिज 15
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy