SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासंस्कृतटीका सुप्तमण्डितप्रबोधदर्शनादि... यथा कस्यचित् सुप्तस्य सतो मण्डितस्य कुङ्कुमादिना, प्रबोधे-निद्राऽपगमे, अन्यथाभूतस्य-सुन्दरस्य चात्मनो दर्शनम् -अवलोकनमाश्चर्यकारि भवति, तथाऽपुनर्बन्धकस्य, अनाभोगवतो विचित्रगुणालङ्कृतस्य, सम्यग्दर्शनादि-लाभकाले विस्मयकारि-आत्मनो दर्शनमिति, आदिशब्दान्नावादि, ग्राह्यमिति । दान्तिक-सिद्धयर्थमाह-"न" नैव "हिः” यस्माद् "एवं" प्रस्थककर्तनन्यायेन प्रवर्त्तमानोऽपुनर्बन्धको "न" नैव न “इष्टसाधकः" प्रस्थकतुल्यसम्यक्त्वादि-साधकोऽपि तु साधक एवेति, अपुनर्बधकस्यैव लक्षणमाह-“भग्नोऽपि" अपुनबन्धकोचितसमाचारात् कथञ्चित् च्युतोऽपि "एतद्यत्नलिङ्ग:" पुनः स्वोचिताचारप्रयत्नाऽवसेयोsपुनर्बन्धकः, आदिधार्मिक इति, एतदिति-इदमेव प्रकृतं चैत्यवन्दनव्याख्यानमिति, “महेत्यादि" महतः-सच्चैत्यवन्दनादेः, कल्याणस्य-कुशलस्य विरोधि-बाधकमवज्ञाविप्लावनादि 'न' नैव 'चिन्तनीयम्' अध्यवसेयं, कुत इत्याह-चिन्तामणीत्यादि, सुगमम् ।। एवमतोऽपि विनिर्गततत्तदर्शनानुसारतः ___अनेन प्रस्थकदृष्टांतेन दर्शनान्तरेषु दत्ताः 'सुप्तमंडितप्रबोधदर्शनादि' दृष्टान्ता अत्र सनमनीयाः, एतानि दर्शनान्तराणि जैनदर्शनतो निर्गतानि ग्राह्यानि, जैनदर्शनं हि नयवादानां सागरः, तेषु मध्ये, एकैकं नयं गृहीत्वाऽन्याऽन्यदर्शनानि प्रचलितानि, दृष्टान्तरूपेण-जैनदर्शनेन संग्रहनयदृष्टया चैतन्यमेकं मानितं, चेतनश्च तद्रूप एव तदा व्यवहारनयदृष्टया चेतना अनंता मानिताः, एवमात्मा, एकानेकात्मकः, अथ वेदान्तदर्शनेनैकः संग्रहनयो गृहीतः, ततो विश्वेऽस्मिन् एक एव शुद्ध आत्मा मतः, तदा न्यायदर्शनेन केवलव्यवहारदृष्टिं नीत्वा अनन्ता आत्मानो मताः, आत्मत्वं-चैतन्यं सर्वथाऽत्मतो भिन्नं मतं, एवमन्यानि अपि दर्शनानि, जैनदर्शनमान्यानेकदृष्टी धृत्वा चलितानि, एतस्यैष परिणाम आगतो यतः जैनदर्शनविषयको, विवेकपूर्ण-दया-सत्यादिरूपभूमिकामार्गस्तेषु संगृहीतो दृश्यते. कल्याणस्य प्रधानाधारो हृदयम् - कल्याणस्य मुख्य आधारः प्रवृत्तिमात्रं नास्ति, प्रवृत्तिस्तु शुद्धदेवादिविषयिणी पूजा भवति, परन्तु यदि हृदयं मलिनं स्यात् , मलिनाशंसा-दम्भादितो भरितं भवेत्तदा तेन कथं कल्याणं भवेत् , हृदयशुद्धिः प्रथमा, हृदयं शुद्धं भवेत्तदा कल्याणं, सर्वतोमुखकल्याणमतः समन्तभद्रता, अपुनर्वधको जीवोऽशुद्धसंगे पतितोऽपि सहजभवोद्वेगः-तीव्रभावेन पापाऽकरणं, तत्त्वाद्वेष -जिज्ञासादिगुणान् गृहीत्वा, मलिनचित्तो न भवति, ततः कल्याणाऽधिकारी वर्तते ।
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy