________________
ललितविस्तरासंस्कृतटीका
शून्यत्वात् फलान्तरभावे च तदन्यस्तुत्यविशेषादलमिहैव यत्नेन,न च यक्षस्तुतिरप्यफलैवेति, प्रतीतमेवैतत् , अथ चरमो विकल्पः ततः सम्यक्त्वाणुव्रत-महावता-दिचारित्रपालनावैयर्थ्य, तत एव मुक्तिसिद्धेः, न च फलान्तरसाधकमिष्यते सम्यक्त्वादि, मोक्षफलत्वेनेष्टत्वात् 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' (तत्त्वार्थे अ० १ सू० १) इति वचनादिति, अत्रोच्यते, विधिवाद एवायं, न च सम्यक्त्वादिवैयर्थ्य, तत्त्वतस्तद्भाव एवास्य भावात् , दीनारादिभ्यो भूतिन्याय एषः, तदवन्ध्यहेतुत्वेन तथा तद्भावोपपत्तेः, अवन्ध्यहेतुश्चाधिकृतफलसिद्धौ
भावनमस्कार इति, अर्थवादपक्षेऽपि न सर्वा स्तुतिः समानफलेत्यतो विशिष्टफलहेतुत्वेनात्रैव यत्नः कार्यः, तुल्ययत्नादेव विषयभेदेन फलभेदोपपत्तेर्बब्बूलकल्पपादपादौ प्रतीतमेतत्, भगवन्नमस्कारश्च परमात्मविषयतयोपमातीतो वर्त्तते, यथोक्तम्
'कल्पद्रुमः परो मत्रः, पुण्यं चिन्तामणिश्च यः। गीयते स नमस्कारस्तथैवाहुरपण्डिताः ॥१॥ कल्पद्रुमो महाभागः, कल्पनागोचरं फलम् । ददाति न च मन्त्रोऽपि, सर्वदुःखविषापहः ॥२॥ न पुण्यमपवर्गाय, न च चिन्तामणिर्यतः ।
तत्कथं ते नमस्कार, एभिस्तुल्योऽभिधीयते? ।३। इत्यादि" ॥ पं०...' स्तुत्यर्थवाद इति ' स्तुतये-स्तुत्यर्थ अर्थवादः-प्रशंसा स्तुत्यर्थवादो, विप्लावनाद्यर्थमपि अर्थवादः स्यात् , तद्वयवच्छेदार्थ स्तुतिग्रहणमिति, 'तत्त्वत इत्यादि' तत्त्वतो निश्चयवृत्त्या 'तद्भाव एव' सम्यग्दर्शनादिभाव एव 'अस्य' नमस्कारस्य भावाद् , दव्यतः पुनरन्यथाऽप्ययं स्यादिति तत्त्वग्रहणं, इदमेव सदृष्टान्तमाह- दीनारादिभ्यो' दीनारप्रभृतिप्रशस्तवस्तुभ्यो