SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासंस्कृतटीका १२९ श्रुतधर्मस्य पूजितत्व--पूज्यत्वरूपप्रस्तुतभावस्यानुवृत्ति-ाप्ति-रविच्छिन्नप्रवाहरूपफलसाध्य-विशिष्ट पूर्ववचन ( प्रथमकथितविशेषणरूपपूर्ववचन )स्य समर्थ 'देवदानवनरेन्द्रगणार्चितस्ये 'ति द्वितीयदत्तविशेषणे सम्यग्घटितं वर्ततेऽतः कोऽपि दोषो नास्त्येवात्र पुनरुक्तत्वं नास्त्येव । ___ प्रस्तुतभावस्य सुरगणनरेन्द्रमहितः श्रुतधर्मों, भगवानित्येवं लक्षणस्यान्वयः-अनुवृत्तिः स एव फलं साध्यं यस्य तत्तथा तस्य-प्राग्वचनस्य निगमनं-समर्थनं पश्चात्कर्मधारयसमासे भावप्रत्यये च प्रस्तुतभावान्वय-फलतन्निगमनत्वं देवदानवनरेन्द्रगणार्चितस्येति, यत्तस्मादिति. यतश्चैवमतः “सिद्धे भो पयओ नमो जिनमए नन्दी सया'संजमे । देवं नागसुवण्णकिन्नरगणस्सत्भूयभावच्चिए । लोगो जत्थ पइढिओ जगमिणं तेलुक्कमच्चासुरं । धम्मो वड्ढउ सासओ विजयओ धम्मोत्तरं वड्ढउ ॥ ४ ।। व्या. सिद्धे-प्रतिष्ठिते प्रख्याते फलाव्यभिचारेण प्रतिष्ठित ( योगक्रियाऽवञ्चकत्वेन फलाऽवञ्चकत्वेन-अवश्यं फलदायकत्वेन प्रतिष्ठां प्राप्तं जिनमतं) तत्र सकलानां नयानां व्याप्तेः ( व्यापकत्वेन ) प्रख्यातः, कषच्छेदतापरूपत्रिकोटी-परिशुद्धत्वेन प्रख्यात-प्रसिद्धि प्राप्त जिनमतं तत्र तस्मै वा.। 'भो' इत्येतदतिशयिनामामन्त्रणं, पश्यन्तु भवन्तः प्रयतोऽहं यथाशक्ये तावन्तं कालं प्रकर्षेण यतः, अर्थात् अवध्यादिज्ञानातिशयिनां, ज्ञानलब्ध्यादिलब्धिधराणां महषीणामामंत्रणं कृत्वा कथयति 'भो भवन्तो भगवन्तः पश्यन्तु' यत् 'प्रयतः ' प्रयत्नशीलः सन् इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्नमस्करोति, 'नमोत्ति नमते ' नमो जिनमताय जिनमते वा, सुपां सुपो भवन्तीति चतुर्थी-अर्थे सप्तमी (एकविभक्ति-स्थानेऽन्या विभक्ति भवतीति न्यायोऽत्र ) तथा चास्मिन् सति (पुनर्नमस्कारकरणेन ) जिनमते 'नन्दिः ' समृद्धिः, सदासर्वकालं क ? संयमे-चारित्रे, तथाचोक्तं 'पढमं ज्ञानं तओ दयेत्यादि' शुद्धचारित्रपालनं यथार्थज्ञान-सापेक्ष, प्रथमं समस्तजीवराशिज्ञानं, पश्चाच्च जीवदया, यथार्थव । हार्दमिदं चारित्र-दयासमृद्धि प्रति जिनमतज्ञानं कारणम् , जिनमते सत्येव चारित्रसमृद्धिः, जिनमतज्ञानेऽसति चारित्ररूपदयासमृद्धेरभावः, एवमन्वयव्यतिरेकाभ्यां कार्यकारणनिश्चयः, किंमते संयमे ! 'देवनागसुपर्णकिन्नरगणैः सद्भुतभावेनाचिते' अर्थाद् वैमानिकदेवैः, नागकुमारैः, सुपर्णकुमारैः, किन्नरगणैः सत्यभावेनाऽचिते-पूजिते संयमे, जिनमते सत्येव समृद्धिरस्ति, तथा च संयमवन्तः-चारित्रवन्तः, अय॑न्ते-पूज्यन्ते एक देवादिभिः ।
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy