SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासंस्कृतटीका ર૭ सार--सामर्थ्यमुपलभ्य कः सकर्णः प्रमादी भवेच्चारित्रधर्म इति ॥ यतश्चैवमत: "सिद्ध भो ! पयओ नमो जिणमए नन्दी सया संजमे, देवनागसुवण्णकिण्णरगणस्सब्भूअभावच्चिए । लोगो जत्थ पइडिओ जगमिणं तेलुक्कमच्चासुरं, धम्मो वड्ढउ सासओ विजयओ धम्मुत्तरं वड्ढउ ॥४॥" अस्य व्याख्या-सिद्धे-प्रतिष्ठिते प्रख्याते, तत्र सिद्धः फलाव्यभिचारेण प्रतिष्ठितः सकलनयव्याप्तेः प्रख्यातस्त्रिकोटीपरिशुद्धत्वेन, भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्नमस्करोति, “ नमो जिनमते " सुपां सुपो भवन्तीति चतुर्थ्यर्थे सप्तमी, नमो जिनमताय, तथा चास्मिन् सति जिनमते : नन्दिः " समृद्धिः “ सदा,” सर्वकालं, क्व ? "संयमे" चारित्रे तथा चोक्तं-“ पढमं नाणं तओ दयेत्यादि," किंभूते संयमे ?-देवनागसुवर्णकिन्नरगणैः सद्भूतभावेनार्चिते, तथा च संयमवन्त. अय॑न्त एव देवादिभिः, किंभूते जिनमते ?लोकनं लोकः ज्ञानमेव स यत्र प्रतिष्ठितः, तथा जगदिदं ज्ञेयतया, केचिन्मनुष्यलोकमेव जगन्मन्यन्त इत्यत आह'त्रैलोक्यं मनुष्यासुरं" आधाराधेयभावरूपमित्यर्थः, अयमित्थम्भूतः श्रुतधम्मों वर्धतां-वृद्धिमुपयातु, शाश्वतमिति क्रियाविशेषणमेतत् शाश्वतं वर्द्धतामित्यप्रच्युत्येति भावना, विजयतः, ___ अनर्थप्रवृत्तपरप्रवादिविजयेनेति हृदयं, तथा धर्मोत्तरंचारित्रधर्मोत्तरं वर्द्धतां, पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy