________________
११८
ललितविस्तरासंस्कृतटीका (१) पुष्करैः-कमलैः सुन्दरं श्रेष्ठं तत् पुष्करवरद्वीपं, तस्यार्धभागे मानुषोत्तरपर्वतीय मनुष्याणां वसतिवदान्तरभागरूपार्घभागे वर्तते.
अत्रेदं बोध्य मध्यलोकस्य मध्ये जम्बूनामको द्वीपो वर्त्तते, यद् यस्य मध्ये मेरुनामको महानेको पर्वत आयातोऽस्ति, एतस्य द्वीपस्य सर्वपार्श्वत एको 'लवणसमुद्रोऽस्ति,' ततः पृथ्वी आगताऽस्ति, तस्या नाम' 'धातकीखंड' आगतोऽस्ति तत्र धातकीवृक्षाणां वनानि सन्ति, तस्य नाम, तत्पतितं । धातकीखंडस्य चतुःपार्वे 'कालोदधिः' समुद्रोऽस्ति, एतत्समुद्रादनन्तरं या पृथ्वी, तस्य नाम 'पुष्करवरद्वीपः ' वर्तते, अस्य द्वीपस्य चतुःपार्श्वे 'पुष्करोदधिनामक' समुद्रोऽस्ति, पुष्करद्वीपस्य मध्ये 'मानुषोत्तरनामक' एकःपर्वत आयातोऽस्ति, यतस्तस्य द्वौ भागौ पततः, अन्तरभागे मनुष्याणां वसतिरस्ति । बाह्ये च भागे नास्ति, जंबूद्वीप-धातकीखंड-पुष्करवर-द्वीपार्ध इति मिलित्वा सार्ध-द्वीप-प्रमाणं मनुष्यक्षेत्रमस्ति, तीर्थकरा, अन्ये महापुरुषा अत्रावतरन्ति.
(२) तथा धातकीनां खण्डानि यस्मिन् स धातकीखण्डो द्वीपः,
(३) तस्मिंश्च तथा जम्ब्वा उपलक्षितः, तत्प्रधानो वा द्वीपो, जम्बूद्वीपः, तस्मिंश्च, एतेष्वर्धतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याऽङ्गीकरणतः, पश्चानुपूयॊपन्यस्तेषु यानि भरतैरावतविदेहानि । प्राकृतशैल्या त्वेकवचननिर्देशः, द्वन्द्वैकवद्भावाद् वा भरतैरावतविदेहमित्यादिर्भवति ।
तत्र 'धर्मादिकरान्नमस्यामि' दुर्गतिप्रसृतान् जीवान् धारयते यतः । धत्ते चैतान् शुभस्थाने यतो धर्मस्ततः स्मृतः । इत्यादिश्लोकोक्त-निरुक्तो धर्मः । स च द्विभेदः, श्रुतधर्मश्चारित्रधर्मश्च । श्रुतमणेहाधिकारः । तस्य भरतादिष्वादौ करणशीलास्तीर्थकरा एव ।
आह-श्रुतज्ञानस्य स्तुतिः प्रस्तुता, कोऽवसरस्तीर्थकृतां येनोच्यते 'धर्मादिकरान्नमस्यामीति' ? उच्यते श्रुतज्ञानस्य तत्प्रभवत्वात् , अन्यथा तदयोगात् , पितृभूतत्वेनाऽवसर एषामिति ।
-एतेन-धर्मादिकरत्वेन सर्वथा-अपौरुषेयवचननिरासःएतेन सर्वथा-अपौरुषेयवचननिरासः,
यथोक्तम्-" असम्भव्यपौरुषेयं ' 'वान्ध्येयखरविषाणतुल्य अपुरुषकृतं वचनं विदुषामनुपन्यसनीयं विद्वत्समवाये, स्वरूपनिराकरणात्, तथाहि-उक्तिर्वचनम् उच्यत इति चेति पुरुषक्रियानुगतं रूपमस्य, एतत् क्रियाऽभावे कथं तद्भवितुमर्हति, न