SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ११६ ललितविस्तरासंस्कृतटोका अष्टमे देवलोके षट्सहस्राणि, नवमदशमयोः चतुःशतानि २ जिनचैत्यानि सन्ति, एकादशद्वाददशयोः त्रिशतानि २, नवसु अवेयकेषु, अष्टादशाधिकत्रिशतानि, पञ्चसु अनुत्तरेषु पञ्च, उत्तमानि चैत्यानि सन्ति, एवं च चतुरशीतिलक्ष-सप्ताधिक-नवति-सहस्राणि जिनचैत्यानि सन्ति, ____ तानि सर्वाणि योजनशतायतानि पञ्चाशद्योजनोच्चानि, द्वि (द्वा) सप्तति-योजनपृथुलानि ज्ञेयानि. ___ एकैकस्मिन् , चैत्ये सभासहितानां, अष्टोतरशतजिनविम्बानां प्रमाणं ज्ञेयं, सर्वसंख्यां मिलित्वा, शतकोटिद्विपञ्चाशत्-कोटि चतुर्णवतिलक्ष-चतुश्चत्वारिंशत्-सहस्राधिकाष्टाधिकसप्त-शतसंख्याका जिनप्रतिमा ज्ञेयाः, ('अन्यथेत्यादि' अन्यथा-कायोत्सर्गस्य (निमित्तं) भिन्नं, स्तुतिश्च भिन्ना, एतन्न युक्तं, एवं सत्यपि भिन्नत्वाऽभ्युपगमेऽतिप्रसङ्गः स्यात्-एवं चेत् सूत्रस्योद्देशोऽन्यः, पाठश्चान्यः ततस्तु सूत्राऽध्ययनादेर्नाम दत्त्वा, सूत्रस्योद्देश-समुद्देश-अनुज्ञाकरणादिकं निरर्थकं भविष्यतीत्येवं यत् किञ्चित् एतद् ) पुनश्च प्रथमपदकृताभिख्यं पुष्करवरद्वीपार्द्ध विधिवत्पठति पठन्ति वा तस्येदानीमभिसम्बन्धी विवरणं चोन्नीयते-सर्वतीर्थकराणां स्तुतिरुक्ता, इदानीं तैरुपदिष्टस्यागमस्य येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनम् , अत इदमुच्यते "पुक्खरवरदीवड्ढे धायइसंडे य जंबुद्दीवे य । भरहेरवयविदेहे धम्माइगरे नमंसामि ॥१॥" व्याख्या-पुष्कराणि-पद्मानि तैर्वरः, पुष्करवरश्चासौ द्वीपश्चेति समासः, तस्यार्द्ध-मानुषोत्तराचलार्वाग्भागवर्ति तस्मिन् , तथा धातकीनां खण्डानि यस्मिन्स धातकीखण्डो द्वीपः तस्मिंश्च, तथा जम्ब्वा उपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपः तस्मिंश्च, एतेष्वर्द्धतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपूर्योपन्यस्तेषु यानि भरतैरावतविदेहानि, प्राकृतशैल्यात्वेकवचननिर्देशः, द्वन्द्वैकवद्भावाडा भरतैरावतविदेह इत्यपि भवति,
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy