SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ eferfaस्तरासटीका भावस्याथवा सद्भावस्य विशुद्धिहेतोरथवा भक्तेषु तेषु स्वभावरूप - भावरूप - भक्तितः - नामादिजपविधितः, कर्मविगमः - कर्मक्षयोपशमादिरूपं प्रयोजनं - फलं भवति भव्यानां कल्याणं भवति. (२) परम - उत्कृष्टगुणरूपेण कारणेन, एते भगवन्तः स्तुत्या अपि सन्ति तेषां स्तुतिद्वारा सिद्धिर्दृष्टा, यतो, अचेतनादपि मन्त्रादि - जपादितः सिद्धिः, १०० 66 अप्रसन्नात् कथं प्राप्यं चिन्तामण्यादयः किं न फलमेतद - सङ्गतम् । फलन्त्यपि विचेतनाः ।। " हेमचन्द्रसूरयः, वी. सू. "निरागी सेवे कांइ होवे, एम मनमां नवि आणुं । फले अचेतन पण जेम सुरमणि, तिम तुम भक्ति प्रमाणु ॥" यशो. चो. १५, "सेवकना तिम दुःख गमावे, प्रभु गुण- प्रेम स्वभावे " अर्थात् वीतरागस्य सेवया किं फलं स्यात् ? इति प्रश्नो मनसि निरवकाश एव, अचेतनोऽपि चिन्तामणिर्यथाविधि सेवया ये ये पदार्था अस्माभि मनसि चिन्तितास्तान् सर्वान् पूरयति, अर्थात् तस्य प्रभावेण तादृशं पुद्गलानां परिणमनं भवति, तत्र देवसहायताऽपेक्षिता न, अचेतनोऽपि चिन्तामणि यंदा फलति तर्हि परम चैतन्यप्रभुरपि प्रभुः, तद्भक्ति-सेवातन्मूल्य - ज्ञातृत्वे भक्तस्य भक्तिफलं कथं न देयात्, भगवांस्तु भक्तं स्वतुल्यं कर्तुं क्षमोऽस्ति, प्रभुस्तु प्रभुरेव तत्र शङ्का न कार्या, परन्तु सत्यभावेन सत्यत्रिकरणयोगेन, पूर्ण श्रद्धा पूर्वकं भगवतां भक्तिकरणेन, तस्याः फलं अवश्यं - निःशङ्कं भवत्येव. तथाऽन्तो वीतरागा एव कुतोऽपि कारणात् कस्मिंश्चिदपि न द्वेष, अपूर्वस्तुतिकर्त्तरिविज्ञप्तिकर्तरि न रागं च विदधति, ते त्वक्षयगुणनिधानत्वेन तेषां भक्ते वा स्तावके तत्तत्प्रकारक - गुणानामाऽऽविर्भावः स्वतः - स :- सहजत्वेन भवति, तद्रीत्या तेषां प्रसन्नताऽस्ति, 66 (३) यस्तु स्तुतः " - स्तुतिविषयीकृतः, प्रसीदति - प्रसादपरायणो भवति, स निन्दायां रोषमवश्यं याति सर्वत्र चित्तस्य समताया अभावेन विषमताया: सद्भावेन, मुख्यत्वेन स्तुत्यः कथं भवति ? अर्थान्मुख्यः स्तुत्यो न भवति. मुख्यत्वेन वीतरागा एव स्तोतव्या, गौणत्वेन वीतरागप्रणीतमार्ग ( वीतरागता - मार्ग ) स्याराधका एव. (४) यथा वह्निः, शीतेनाऽर्दितेषु - पीडितेषु रागद्वेषौ न करोति, अथवा न तानाह्वयतिअत्रागच्छत यूयं युष्माकं शीतमवश्यं विनश्यतीति, तथाऽपि तं - वह्निममिमाश्रिताः - शरणागताः, स्वेष्ट - आत्मीयमिष्टं - शीतपीडानाशरूपं, उष्णता - स - स्फूर्ति - प्राप्तिरूपं वाञ्छितमश्नुवते- प्राप्नुवन्ति नान्यथा.
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy