SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ९२ ललितविस्तरासंस्कृतटीका (१०) व्यु.-सकलसत्त्वसन्तापहरणात् , 'शीतलः'। वि.-तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नाऽचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्तः इति शीतलः। (११) व्यु.-श्रेयांसावंसावस्य श्रेयांसः, पृषोदरादित्वात् । वि.-यथा गर्भस्थेऽस्मिन् केनाऽप्यनाक्रान्तपूर्वदेवताऽधिष्ठितशय्या जनन्याक्रान्तेति श्रेयो जातमिति श्रेयांसः। (१२) व्यु.-वसुपूज्यनृपतेरयं 'वासुपूज्यः'। वि.-यद्वा गर्भस्थेऽस्मिन् वसु-हिरण्यं तेन, वासवो राजकुलं पूजितवानिति, वसवो देव विशेषास्तेषां पूज्यो वा वसुपूज्यः, प्रज्ञाद्यणि वासुपूज्यः । (१३) व्यु.-विगतो मलोऽस्य, विमलज्ञानादियोगाद्वा 'विमलः'। वि.- यद्वा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः । (१४) व्यु.-न विद्यते गुणानामन्तोऽस्य 'अनन्त:.' अनन्तजिदेकदेशो वा 'अनन्तः', भीमो भीमसेन इति न्यायात् स चासौ तीर्थकृचानन्ततीर्थकृत् । वि.-स्वप्ने मात्रा (अनन्त) रत्नराशिखचितो महान् हारो दृष्टः । (१५) व्यु.-दुर्गतौ प्रपतन्तं सत्त्वसवात धारयति धर्मः । वि.-तथा गर्भस्थ जननी दानादिधर्मपरा जातेति ‘धर्मः' । (१६) व्यु.-शान्तियोगात् तदात्मकत्वात् तस्कर्तृकत्वाच्चायं 'शान्तिः । ... . वि.-गर्भस्थे पूर्वोत्पन्नाऽशिवशान्तिरभूदिति शान्तिः। (१७) व्यु.-कुःपृथ्वी, तस्यां स्थितवानिति 'कुन्थुः' पृषोदरादित्वात् । वि.-तथा गर्भस्थे भगवति जननी रस्नानां कुन्थुराशि दृष्टवतीति कुन्थुः । (१८) व्यु.-"सर्वो नाम महासत्त्वः, कुले य उपजायते ।। तस्याऽभिवृद्धये वृद्धै रसाकर उदाहतः ॥” इतिवचनादरः। वि.-तथा गर्भस्थे भगवति जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इत्यरः । (१९) व्यु.-परीषहादिमल्लजयान्निरुक्तान्मल्लिः । वि.-तथा गर्भस्थे भगवति मातुः सुरभिकुसुममाल्यशयनीयदोहदो देवतया परित : इति मल्लिः ।
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy