SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासंस्कृतटीका त्वेन प्रवचनाधिकरणं तीथमुच्यत एव) धर्माधारः-प्रवचनधारःचतुर्वर्णःसंघः 'न धर्मो धार्मिकै विना, यं तीर्थ कथयन्ति पावनतयेत्यभियुक्तोक्तेः' यथा धृतमानयेत्युक्ते घृतं साक्षान्नानीयते, धृतपात्रे धृतमानीयते, तथैव धर्म इत्युक्ते श्रमणश्रावकयोधर्माधारतयैवा-भिन्नत्वेन धर्मधर्मिणोरभेदात् धर्मिधर्मप्रधानौ तीर्थत्वेन भण्येते, अर्थात्प्रवचनप्रवचनाधारचतुर्विधसंघरूपधर्मतीर्थकरणशीला धर्मतीर्थकरास्तान, अर्हतःकीर्तयिष्यामीति, अर्हतो द्वितीयविशेषणम् । (३) 'जिनान्' तथा सगादिजेतारो जिनास्तान् , पूर्वोक्त विशेषणद्वयं यथा, तथा 'रागद्वेषमोहरूपभावशत्रणां' (आत्मगुणघातिकर्मादिशत्रूणां) मिथो जन्यजनकभावेन स्थितानां रागादिकर्मादिशत्रणां मूलतः सर्वथा विजेतारः-विजयकर्तारो जिनास्तान् अर्हतःकीर्तयिष्यामीति तृतीयविशेषणम् । (४) तथाऽशोकाद्यष्टप्रातिहार्यादिरूपां पूजामहन्तीत्यहहन्तस्तानर्हतः, अशोकप्रभृत्यष्टप्रातिहार्यादिरूपां विशिप्टपूजामहन्तीत्यर्हन्तः विशिष्टपूजाया योग्यत्वेनार्थेन विशेषणमप्यत्र विशेष्यवाचकं पदं ज्ञेयम्, "चिहनैव्यक्त भवेद्व्यक्ते ऑतिशब्दोऽपि वाचकः" अ.चि., चिहनै विशेषणे व्यक्तैः निःसंदेहै जात्यभिधायकोऽपि शब्दो व्यक्ते चिको भवेत् व्यक्ते मतां यातीत्यर्थः, लोकोद्द्योतकरादिभिःविशेषणैः, अर्हत्त्वजात्यभिधायकोऽर्हच्छब्दो ऋषभोदिव्यक्ते चिको भवेत् ) (५) केवलिनः केवलज्ञानमेषां विद्यते इति केवलिनस्तान् -अर्हतःकीर्तयिष्यामि, कीर्तयिष्यामि' इति स्वनामभिः-क्रमशःऋषभादिनामानि गृहीत्वा स्तोष्ये-तानहतः स्तुतिविषयीकरिप्येऽहम् इत्यर्थः । अत्रेदं स्मरणीयम्, (१) अर्हत इति विशेष्यवाचकं पदम्, .. (२) कीर्तियिष्यामीति क्रियावाचकं पदम्, :..: . (३) लोकस्योद्घोतकरानिति. प्रथमं विशेषणपदम् यदः वचनातिशयदर्शकं, (४) 'धर्मतीर्थकरानिति' द्वितीयं विशेषणपदम् यत् पूजातिशयद्योतकं वर्तते, (५) 'जिनानि' ति तृतीयं विशेषणपदं, यदपायागमातिशयसूचकं विद्यते, (६) 'केवलिनः' इति चतुर्थ विशेषणपदं, यज्ज्ञानातिशयज्ञापकं ज्ञायते, (७) 'चतुर्विशति' इति संख्यावाचकं विशेषणपदम्,
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy