SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ लरितविस्तरासंस्कृतटीका तथा च प्रकृत - कायोत्सर्गध्यानादिरूप-शुद्धभावेनोपाच-सात वेदनीयादिरूपं । पुण्यानुबन्धिपुण्यकर्म, नैयत्येन शुद्धभावफलदमस्त्येव, एवं च शुद्धभाव ( श्रद्धादि ) रूपं फलं— कार्य प्रति निरुक्तशुद्धभावोपात्तं कर्म, असाधारणं कारणमस्ति, - अथैनं विषयं सोदाहरणं ज्ञापयति ७१. , यथा सौवर्णो घटः, भग्नदशायामपि सुवर्ण–फलकस्तु नित्यस्तिष्ठति, अर्थात् स्वर्ण नित्यं, आदिना रूप्य - घटादिर्ब्राह्यः तथा प्रकृतकर्माऽपि ज्ञेयं, अर्थात् - शुद्धभावोपात्तं कर्म, शुद्धभावरूपं फलं ददाति, सारं तु शुद्धभावोपात्त - कर्मण उदयेन विवेकोत्पत्तिरूपं विद्याजन्म भवति, यतः कारणस्वभावानुविधायी कार्यस्वभावो वर्त्तते, यादृशः कारणस्वभावः तादृश एवकार्यस्वभावः, अतः शुद्धभावेनोपात्तं कर्म शुद्धभावस्य कारणं कथं न ? अर्थात् शुद्धभावोपाचं कर्म शुद्धभावस्य कारणं भवत्येव शुभसंस्कारकारणमपि. कारणानुगुणकार्ये युक्तिश्रागमश्च (१) युक्तिः=कारणस्वभावानुसारी कार्यस्वभाव:, इति वस्तु, युक्तयाऽऽगमेन सिद्धम्, अन्वयव्यतिरेकसङ्गतिमती युक्ति दृश्यते च सुवर्णकुम्भभने नष्टखण्डावस्थायां सुवर्णमेव लभ्यते इत्यन्वयः, मृत्कुम्भे भने सुवर्ण न लभ्यते इति व्यतिरेकः । (२) आगमः = " जं जं समयं जीवो आविसह जेण जेण भावेण । सो मिमि समये सुहासु बंधए कम्मं ॥ " उ. मा. श्लो. २४ यत्र यत्र समये जीवो येन येन भावेन संयुक्तो भवति तत्र तत्र समये स तादृशं शुभं वाऽशुभं कर्म बनातीति. शुभभावेन च शुभं चेत्कर्म तदा सातवेद्योच्चैर्गोत्रयशोनामकर्मादि, जीवो बध्नाति, अशुभभावेन तदाऽसातवेद्यनी च्चै गौत्रापयशोनामकर्मादि कर्म बध्नाति. अर्थात् कायोत्सर्गकाले क्रियमाणात् पूर्वोक्तध्येय मध्यतः, एकतरं, निरन्तरनित्यनियतध्येयविषयकं ध्यानं, एतावन्माहात्म्यवदस्ति यतो विद्या - विवेकोत्पत्तिर्भवति. ( एतदवस्तु शास्त्रीयं परमेश्वरप्रणीतं तथा एतद् विवेकोत्पतिद्वारा ध्येयध्यानेन चैतन्यपरिणामरूपयोगः शुद्धो भवति यथा विवेकमात्रानुसारेण विशिष्टविशिष्टतर उपयोगस्तेजस्वी शुद्धो भवति शुद्धभावोपात्तं कर्मावन्ध्यं तथाहि सुवर्णघटोदाहरणेन शुद्धभावात् शुद्धभाव उत्पद्यते, कथमिति चेत् कथ्यते, शुद्धभावोपात्तं कर्मावन्ध्यमवश्यं नियमात् शुद्धभावदायकं
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy