________________
ललितविस्तरासंस्कृतटीका
कृतं प्रसङ्गेन कियन्तं कालं यावत्तिष्ठामीत्यत्राह
" जाव अरिहंताणमित्यादि " यावदिति - कालावधारणे, अशोकाद्यष्टमहाप्रातिहार्यलक्षणां पूजामर्हन्तीत्यर्हन्तस्तेषामर्हतां, भगः - समग्रैश्वर्यादिलक्षणः स विद्यते येषां ते भगवन्तः तेषां सम्बन्धिना नमस्कारेण 'नमो अरिहन्तान्ति' अनेन न पारयामि न पारं गच्छामि, तावत्किमित्याह
"
""
"
“ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि" तावच्छब्देन कालनिर्देशमाह, “ कार्य " देहं “ स्थानेन " ऊर्ध्वस्थानेन हेतुभूतेन तथा मौनेन " वाग्निरोधलक्षणेन तथा “ ध्यानेन " धम्मंध्यानादिना " अप्पाणंति " प्राकृतशैल्या आत्मीयम् अन्ये न पठन्त्येवैनमालापकं “ व्युत्सृजामि " परित्यजामि इयमत्र भावना - कार्य स्थान मौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य व्युत्सृजामि, नमस्कारपाठं यावत्प्रलम्वभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीति, ततः कायोत्सर्ग करोतीति । जघन्योऽपि तावदष्टोच्छ्वासमानः |
"
५७
"
(6
टी..... तत्रानेन सहजास्तथा अल्पेतरनिमित्ता आगन्तवो नियम - भाविनश्चाल्पबाह्यनिबन्धना बाह्याश्चातिचारजातय इत्युक्तं भवति.
(१) सहजा : - उच्छ्वासनिःश्वासग्रहणात् सहजा : सचित्तदेह प्रतिबद्धत्वात्, सर्वथा कायोत्सर्गगताऽतिचारजातिरूपोच्छवासः (मुखेन नासिकया वाऽन्तर्नीयमानः श्वासः ) निःश्वासश्च ( यःश्वासो मुखनासिकाभ्यां शरीराद् बहिर्निष्काश्यमानः ) उच्छवासनिःश्वासौ द्वौ सहजौ जीवनधारणोपयोगिभूतप्राणविशेषौ, उच्छवासनिःश्वासौ नैसर्गिकौ, यतः सचित्त ( जीवत् ) ( सजीव ) देहेन सह प्रतिबद्धौ - व्याप्तिमन्तौ यत्र यत्रोच्छवासनिःश्वासौ तत्र तत्र सजीवदेहत्वम्, यत्र सजीवदेहत्वं नास्ति, तत्रोच्छवासनिःश्वासौ न स्तः, प्रत्येकप्राणिपर्याप्तौ,
८