________________
उपमान
खण्ड
ललितविस्तरासंस्कृत टीका
समाधानम् क्रोधादिकषाय-इन्द्रियविषयविकारादिकटुकत्व ( कटुस्वाद ) स्य निरोधा-- दात्मनि, उपशम ( शान्तरस ) रूपप्रीणनहेतु-माधुर्य ( मधुरभाव ) स्य विधान- साम्येन ( सादृश्येन) चेतसः-मनसः (आत्मनः ) 'एवं' इक्ष्वाद्युपमानोपमेयतयोपन्यास आदरादीनाम् । लाभापेक्षया
उत्पत्त्यपेक्षया पश्चानुपूर्वी
पूर्वानुपूर्वी उपमेय आदरादि
रसः (कवोष्णं कृत्वा) शर्करा श्रद्धा
गुडः मेधा
खण्डः धृतिः धारणा
शर्करा ( सूक्ष्मशर्करा) अनुप्रेक्षा
उत्तमजातिकशर्करा (शुद्ध) सहादरादिः, अथ 'चोपायवत' इति प्रागुक्तम्, अत उपायमेव दर्शयति-एवं सामान्येनानादरादियुक्तं प्रकृतकायोत्सर्ग-विधानमेव न पुनरन्यत् , शर्करादिप्रतिमश्रद्धादिभवने उपायः-हेतुः, यतः 'तथा तथा' तत्तत्प्रकारेण, शुद्धपरिणाम निर्मलं कृत्वा--सद्भावं शोधयित्वाऽर्थात् तत्तत्प्रकारावच्छिन्नसद्भावस्य निर्मलीकरणद्वारा, सामान्येनादरादियुक्तं-प्रकृतकायोत्सर्गकरणं यदाभवेच्दा शर्करादिसदृश-श्रद्धादेरुत्पत्तिरस्ति, तत्तत्प्रकारावच्छेदेन सद्भावस्य शुद्धीकरणद्वारा, सामान्येनादशादियुक्तं प्रकृतकायोत्सर्गस्य करणं न भवेत्तदा शर्करादिसदृशश्रद्धादेरभावोऽस्ति, अर्थात् , शर्करादि सदृशश्रद्धादेरुत्पत्तिं प्रति तत्तत्प्रकारेण शुद्ध परिणामस्यातिनिर्मलीकरणद्वारा सामा. न्येनादरादियुक्त-कायोत्सर्ग-करणमेष हेतुरस्ति, एवमन्वयव्यतिरेकाभ्यां कार्यकारणभावो निर्णेतव्यः ।
इदमपि परमतेन संवादयतिपरैरपि-"आदरः करणे प्रोतिरविघ्नः सम्पदागमः ।
जिज्ञासा तज्ज्ञसेवा च, सदनुष्ठानलक्षणम् ॥१॥ अतोऽभिलषितार्थाप्तिस्तत्तद्भावविशुद्धितः । यथेक्षोः शर्कराप्तिः स्यात्क्रमात्सद्धेतुयोगतः ॥२॥ इत्यादि"