SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ४४ ललितविस्तरासंस्कृतटीका प्रसाध्यते, तथाहि-उत्पत्तिक्रियाकाल एव प्रथमतन्तुप्रवेशेऽसावुत्पन्नः, यदि पुनर्नोत्पन्नोऽभविष्यत् , तदा तस्याः क्रियाया वैयर्थ्यमभविष्यत् , निष्फलत्वात् , उत्पाद्योत्पादनार्था हि क्रिया भवन्ति, यथा च प्रथमे क्रियाक्षणे नासावुत्पन्नस्तथोत्तरेष्वपि क्षणेषु अनुत्पन्न एवाऽसौ प्राप्नोति, को ह्यत्तरक्षणक्रियाणामात्मनि रूपविशेषो ? येन प्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते, अतः सर्वदेवानुत्पत्तिप्रसङ्गः दृष्टा चोत्पत्तिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनात्, अतः प्रथमतन्तुप्रवेशकाल एव किश्चिदुत्पन्नं पटस्य, यावच्चोत्पन्नं न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरुत्पाद्येत तदा तदेकदेशोत्पाद एव क्रियाणां कालानां च क्षयः स्यात्, यदि हि तद्देशोत्पादननिरपेक्षा अन्याःक्रिया भवन्ति, तदोत्तरांशानुक्रमणं युज्यते नान्यथा, तदेव यथा पट उत्पद्यमान एवोत्पन्नस्तथैव बहुसमयपरिमाणत्वात् कायोत्सर्गस्यादिसमयात् प्रभृति व्युत्सृज्यमानकाय एव व्युत्सृष्टः, कथं यतो यदि हि स कायोत्सर्जनाभिमुखीभूतः कायोत्सर्गस्यादिसमय एव न व्युत्सृष्टः स्यात्तदा तस्याद्यस्य व्युत्सर्जन-समयस्य वैयर्थ्य स्यात् , तत्राव्युत्सृष्टत्वात् , यथा च तस्मिन् समये न व्युत्सृष्टः, तथा द्वितीयादिसमयेष्वपि न व्युत्सृजेत्, को हि तेषामात्मनि रूपविशेषो ? येन प्रथमसमये न व्युत्सृष्ट, उत्तरेषु व्युत्सृजतीति, अतः सर्वदैवाऽव्युत्सर्जन-प्रसङ्गः, अन्त्यसमये. कायोत्सर्गस्य दर्शनात्, अतः कायोत्सर्गादिसमय एव किञ्चिद् व्युत्सृष्टं, यश्च तस्मिन् व्युत्सृष्टः स चोत्तरेषु समयेषु न व्युत्सृजति, यदि तु तेप्वपि तदेवाद्यं व्युत्सर्जनं भवेत्तदा तस्मिन्नेव व्युत्सर्जने सर्वेषां कायव्युत्सर्जन-समयानां क्षयः स्यात् यदि हि तत्समयव्युत्सर्जन-निरपेक्षाण्यन्यसमयव्युत्सर्जनानि भवन्ति, तदोत्तरव्युत्सर्जनाऽनुक्रमणं युज्येत, नान्यथा तदेवं व्युत्सृज्यमानोऽपि कायो व्युत्सृष्टो भवतीति.) - "कृतं पुनः क्रियमाणं उपरतक्रियं वा स्यात् 'तेनेह क्रियमाणं नियमेन कृतं, कृतं च भजनीयं, किश्चिदिह क्रियमाणं उपरतक्रियं वा भवेदि' ति। व्यवहारनयस्त्वन्यत् क्रियमाणं अन्यच्च कृतमिति मन्यते, यदाह “नारम्भे किल दृश्यते न शिवादधैं नो दृश्यते तदन्ते, यस्माद्घटादि कार्य न क्रियमाणं कृतं तस्मात् " ततोऽत्र निश्चयनयवृत्त्या, व्युत्स्रष्टुमारब्धकायस्तद्देशापेक्षया व्युत्सृष्ट एव द्रष्टव्य इति" इत्येतन्निरूपणेनेदं वस्तु दर्शयति यत् प्रतिज्ञापूर्वकं श्रद्धादिना युक्तं यदनुष्ठान तत्सदनुष्ठानं कथ्यते. अथ विषयमेनं शङ्कासमाधानपूर्वकं सुन्दरं विवेचयतिशङ्का श्रद्धादिविकलस्य (यस्य श्रद्धादि नास्ति तस्य एवमभिधानं) ('अरिहंत
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy