________________
४२
ललितविस्तरासंस्कृतटीका
_ "मन्देत्यादि" मन्दो-मृदुस्तीत्रः-प्रकृष्टः, आदिशब्दात्तदुभयमध्यवर्ती मध्यमः, त एव भेदाविशेषा येषां ते तथा “चः” समुच्चये “ एते" श्रद्धादयः, किंविशिष्टा इत्याह-" तथा " तेन प्रकारेण ये आदरादयो वक्ष्यमाणास्त एव लिङगं-गमकं येषां ते तथा, "इतिः" वाक्यसमाप्तौ, ननु कथमेषां लिङ्गत्वं सिद्धमित्याह-“न” नव "अतद्वतः" अश्रद्धादिमतो यत इति गम्यते "आदरादि " वक्ष्यमाणमेव “इति" अतः श्रद्धादिकारणत्वाल्लिङ्गमिति, ततः किं सिद्धमित्याह-“अतः” श्रद्धादिकारणत्वात् “तदादरादिभावे" तत्र-कायोत्सर्गे आदरादेः लिङ्गस्य भावे-सत्तायाम् “ अनाभोगवतोऽपि" चलचित्ततया प्रकृतस्थानवर्णाद्युपयोगविरहेऽपि किंपुनरा. भोगे ? इत्यपिशब्दार्थः, “ एते" श्रद्धादयः कार्याविनाभावित्वात् कस्यचित् कारणस्य यथा प्रदीपस्य प्रकाशेन वृक्षस्य वा च्छायया, इतिर्वाक्यसमाप्तौ ॥
। अतो मन्दतया श्रद्धादीनामनुपलक्षणे, अपि, आदरादिभावे सूत्रमुच्चारयतोऽपि न प्रेक्षावत्ताक्षतिः, परमतेनापि श्रद्धादीनां मन्दतीव्रादित्वं साधयन्नाह-" इक्षुरसगुडखण्डशर्करोपमाः" इक्ष्वादिभिः पञ्चमिर्जनप्रतीतैरुपमा-सादृश्यं येषां ते तथा “चित्तधर्माः' मनःपरिणामा " इति" एतस्यार्थस्य “ अन्यैरपि" तन्त्रान्तरीयैः, किं पुनरस्माभिः १ “ अभिधानात्" भणनात्, प्रकृतयोरेवोपमानोपमेययोर्योजनामाह-" इक्षुकल्प च" इक्षुसदृशं च “तद्" आदरादि' तस्मिन्-कायोत्सर्गे आदरः-उपादेयभावः आदिशब्दात्करणे प्रीत्यादि “इति” अस्मात्कारणाद् "भवति" सम्पद्यते " अतः" इक्षुकल्पादादरादेः “क्रमेण " प्रकर्षपरिपाट्या "उपायवतः" तद्धेतुयुक्तस्य शर्करा-सिता आदिशब्दात्पश्चानुपूर्व्या खण्डादिग्रहः तत्सम प्रकृतसूत्रोपात्तं श्रद्धामेधादिगुणपञ्चकम् “इतिः” परिसमाप्तौ । आह-किमिति दृष्टान्तान्तरव्युदासेनेक्ष्वाद्यपमोपन्यास इत्याशङ्कयाह
" कषायादिकटुकत्वनिरोधतः” कषायाः-क्रोधादयः, आदिशब्दादिन्द्रियविकारादिग्रहस्त एव कटुकत्व-कटुकभावस्तस्य निरोधादात्मनि किमित्याह-"शममाधुर्यापादनसाम्येन" शमः-उपशमः स एव माधुर्य-मधुरभावः प्रीणनहेतुत्वात् तस्यापादन-विधान तेन तस्य वा साम्य-सादृश्य तेन · चेतसो” मनसः “ एवम्” इक्ष्वाद्यपमानोपमेयतयोपन्यास आदरादीनाम् " इतिः" परिसमाप्तौ, उपायवत इति प्रागुक्तम्, अत उपायमेव दर्शयति-" एतदनुष्ठानमेव च " प्रकृतकायोत्सर्गविधानमेव न पुनरन्यत् “चः" समुच्चये “ एवम्” इति सामान्येनादरादियुक्तम् "इहेति" शर्करादिप्रतिमश्रद्धादिभवने “ उपायो" हेतुः, कुत इत्याह-" तथा तथा” तत्तत्प्रकारेण “ सद्भावशोधनेन” शुद्धपरिणामनिर्मलीकरणेन " इति” एतत् " परिभावनीय " अन्वयव्यतिरेकाभ्यामालोचनीयमेतद् । इदमपि परमतेन संवादयन्नाह-उक्तं च
टी०...यत् प्राक् 'करोमि कायोत्सर्गमिति वाक्यं कथितं तत्र 'करोमि' रूप-क्रियापदस्य वर्तमानकालीनो यः प्रयोगः स भविष्यत्कालीनार्थवान् ('सत्सामीप्ये सद्वद्वा'