SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासंस्कृतटीका "एतदुच्चारणं त्वेवमेवोपधाशुद्धं सदनुष्ठानं भवती" ति, एतेषां श्रद्धादि-सूत्राणामुच्चारणं ( कण्ठतास्वाद्यभिघातेन शब्दजनकव्यापारः शब्दोत्पत्त्यनुकूलव्यापारः) तु, एवमेवपूर्वोक्तविधिप्रकारेणोपधाशुद्धं मायया वा परीक्षया शुद्धं रहित वा निर्मलं) सद् अनुष्ठानतद्धेतु, अमृताऽनुष्ठानं भवतीति, श्रद्धादि-उपधा शुद्धश्रद्धाधुच्चारणरूप-सदनुष्ठानवानेवास्यकायोत्सर्गस्याधिकारी-योग्य इति ज्ञापनार्थ, श्रद्धादिसूत्राणामुच्चारणं विशिष्टमेवात एवविशिष्टतां श्रद्धादीनां दर्शयति 'वर्धमानया-श्रद्धया' वृद्धि गच्छन्त्या, प्राप्तवत्या प्राप्नुवन्त्या, नावस्थितया (न बन्धवत्या न स्थितया न निवृत्तया-हीनमानया तु नैव) वर्धमानयेति पदमिदं श्रद्धादिपञ्चकपदेऽर्थात् प्रतिपदं-पदे पदे, उपस्थायि=उपतिष्ठते इत्येवं शीलं, श्रद्धया वर्धमानया एवं मेघयेत्यादि वर्धमानया, धृत्या वर्धमानया, धारणया वर्धमानया, अनुप्रेक्षया वर्धमानया, लाभक्रमादुपन्यासः श्रद्धादीनां, तथाहि-अन्वयव्यतिरेकाभ्यां पूर्वपूर्वपदस्य सत्तयोत्तरोत्तरपदसत्ता, तथा च श्रद्धायां सत्यां-विद्यमानायां मेधायाः सत्ता, श्रद्धाया अभावे मेधाया अभावः, (१) यतो मेधाया लाभं प्रति श्रद्धालाभः कारणम्, तस्मान्मेधाकारणभूता श्रद्धा पूर्व रक्ष्यते, श्रद्धायाः कार्यभूता मेधा तदनु मुच्यते, (२) तथा मेघालाभसत्त्वे धृतिलाभस्य सत्ता, अत एव धृत्याः कारणभृता मेघा पूर्व मुच्यते, तस्याश्च कार्यभूता धतिस्तदनु मुच्यते, (३) तथा धतिलाभे धारणाया लाभः, अतो धारणाकारणभृता धृतिः पूर्व मुच्यते, तस्याश्च कार्यभृता धारणा तदनु मुच्यते, (४) तथा धारणालाभेऽनुप्रेक्षालाभः, अतोऽनुप्रेक्षया कारणभूता धारणा पूर्व मुच्यते, अतःकार्यभूताऽनुप्रेक्षा तदनु मुच्यते, वृद्धिरप्यनेनैव क्रमेणाऽर्थात्, श्रद्धावृद्धितो मेधावृद्धिः, तथा मेधावृद्धितो धतिवृद्धिः तथा धृतिवृद्धितो धारणावृद्धिः, तथा धारणावृद्धितोऽनुप्रेक्षावृद्धिः, एवं –वर्धमानया श्रद्धया, वर्धमानया मेधया, वर्धमानया धृत्या, वर्धमानया धारणया, वर्धमानयाऽनुप्रेक्षया, “तिष्ठामि कायोत्सर्गमित्यनेन प्रतिपत्ति दर्शयति " प्रतिपत्ति-प्रतिज्ञां दर्शयति (कायोत्सर्गस्यारम्भ-आद्यप्रयत्न-आद्यप्रवृत्तिरूपप्रतिपत्ति दर्शयति) -करोमि कायोत्सर्ग च तिष्ठामि कायोत्सर्गमिति द्वयो क्यियो वस्तुतो योऽर्थभेदो ययाऽपेक्षयाऽस्ति, तं सुन्दरशैल्या दर्शयति. प्राक् 'करोमि' 'करिष्यामि' इति क्रियाऽऽभिमुख्यमुक्तं, साम्प्रतं त्वासन्नतरत्वात्क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात् तिष्ठाम्येवाऽहं
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy