________________
२४
ललितविस्तरासंस्कृतटीका
( पूजासत्कारोद्देश्यक (विशेष्यक) विषयतावन्तौ साधुश्रावकावेवेत्यर्थः )-अथ शास्त्रकारः, अर्हचैत्यविषयकसन्मार्गजन्यकर्मक्षयादिरूपफलोद्देश्यक--प्रार्थनागर्भितकायोत्सर्गस्य वर्णनम्
तथा “ सम्माणवत्तियाएत्ति” सम्मानप्रत्ययं-सन्माननिमित्तं, स्तुत्यादिगुणोन्नतिकरणं सन्मानः, तथा मानसप्रीतिविशेष इत्यन्ये । अथ वन्दनपूजनसत्कारसम्मानाः किंनिमित्तमित्यत आह-"वोहि लाभवत्तियाए” बोधिलाभप्रत्ययं-बोधिलाभनिमित्तं, जिनप्रणीतधर्मप्राप्तिर्वोधिलाभोऽभिधीयते, अथ बोधिलाभ एव किंनिमित्तमित्यत आह-"निरुवसग्गवत्तियाए" निरुपसर्गप्रत्ययं-निरुपसर्गनिमित्तं, निरुपसग्र्गो-मोक्षः, जन्मायुपसर्गाभावेन, आह-साधुश्रावकयोर्बोधिलाभोऽस्त्येव, कथं तत्प्रत्ययं, सिद्धस्यासाध्यत्वात् , एवं तन्निमित्तो निरुपसग्गोऽपि तथाऽनभिलषणोय एवेति किमर्थमनयोरुपन्यास इति ? , उच्यते, क्लिष्टकर्मोदयवशेन बोधिलाभस्य प्रतिपातसम्भवाजन्मान्तरेऽपि तदर्थत्वसिद्धेः, निरुपसर्गस्यापि तदायत्तत्वात् सम्भवत्येवं भावातिशयेन रक्षणमित्येतदर्थमनयोरुपन्यासः, न चाप्राप्तौ प्राप्तावेवेह प्रार्थना, प्राप्तभ्रष्टस्यापि प्रयत्नप्राप्यत्वात् , क्षायिकसम्यग्दृष्ट्यपेक्षयाऽप्यक्षेपफलसाधकबोधिलाभापेक्षयैवमुपन्यासः। अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह-" सद्धाए मेहाए धीइए धारणाए अणुप्पेहाए, वड्ढमाणोए ठामि काउस्सग्गंति" श्रद्धया-हेतुभूतया न बलाभियोगादिना श्रद्धा-निजोऽभिलाषः, मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्यश्चेतसः, प्रसाद इत्यर्थः, अयं च जोवादितत्त्वार्थानुसारी समारोपविघातकृत् कर्मफलसम्बन्धास्तित्वादि