SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा संस्कृत टीका दर्हचैत्यानि भण्यन्ते तेषां, किम् ?- करोमि' इत्युत्तमपुरुषैकवचननिदेशेनात्माभ्युपगमं दर्शयति, किमित्याह-कायः-शरीरं, तस्योत्सर्गः-कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्याग इत्यर्थः, तं कायोत्सर्गम् । पं. 'कृताकारस्येति' विहितकायोत्सर्गाहंशरीरसंस्थानस्य, उच्चरितकायोत्सग्गापवादसूत्रस्य वेति । ___टी....' अरिहंतचेइआण करेमि काउसग्गं'= अर्हन्तः अशोकादिरूपाष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तः । ( अशोकवृक्षः सुरपुष्पवृष्टिः, दिव्यध्वनिश्चामरमासनं च, भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणां) (१) प्रायो जिनेश्वराणां स्वशरीरतो द्वादशगुणो देवैश्चैत्यवृक्षो रच्यते तत्राध उपविश्य जिना उपदिशन्ति (२) सुरपुष्पवृष्टिः=योजनमात्रके समवसरणे जलजस्थलजानां सुरभिसुरभितानां विकचानां पंचवर्णानां जानृत्सेधप्रमाणानां सुमनसां सुमनसो वृष्टिं विदधति, तत्राचिन्त्यानुपमेयपरमेश्वर-प्रभावतो यातायातानां संघट्टनतो पुष्पाणि पीडितानि न भवन्ति. (३) दिव्यध्वनिः उपनीतरागत्वं मालवकैशिक्यादिरागयुक्तत्वं यद्यपि दिव्यध्वनि भगवतामेव तथापि भगवद्देशनाकाले बहुमानप्रकर्षेण प्रेरिताः पार्श्वबये स्थिताः सुरा वीणावंशवाद्यशुषिरादीनां सुमधुरस्वरेण भगवत्स्वरं पूरयन्ति. (४) चामरं रत्नघटित सौवर्णदण्डिकासहिताश्चतुरो युगलरूपान्-समवसरणे देवाश्चामरान् वीजयन्ति. (५) आसनं देवा भगवत उपवेशनाय सपादपीठं मृगेन्द्रासनमुज्ज्वलं चन्द्रकांतसूर्यकांतमणिरूपाकाशस्फटिकघटितत्वेन निर्मलं रचयन्ति. (६) भामण्डलं भामण्डलं चारुमौलिपृष्ठे विडम्विताहर्पति-मण्डलश्रि. (७) दुन्दुभिः भगवतामप्रतोऽजसं दुन्दुभिं विशिष्ट-ढक्कां वादयन्ति. (८) छत्रत्रयी=मौक्तिक-हारमालाशोभितं शारदचंद्रवदुज्ज्वलं उपर्युपरिछत्रत्रयं देवाः समवसृतौ भगवतां मस्तके रचयन्ति, भगवान् स्वयं समवसरणे पूर्वाऽभिमुखः सन्नुपविशति, अन्यासु तिसृषु दिक्षु देवा भगवतःप्रभावेन प्रतिबिम्बानि रचयित्वा स्थापयन्ति, समुदितानि तदा द्वादश छत्राणि भवन्ति, सगवसरणाभावे, एतान्यष्टौ प्रातिहार्याणि तु भवन्त्येव.
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy