SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासटीका यदि शुभचित्तलाभरूपफलजनकत्वेन सर्वाणि महास्तोत्राणि तुल्यानि सन्तीति मान्यताया अभावे शुभचित्तलाभरूपफलयोग-( अप्राप्तप्रापणरूपयोग-) स्य व्याधातः-अभावो भवति. इति योगाचार्य वदन्ति. अत्र ज्ञापकं ( प्रमाणं ) वन्दनयोगजन्यशुभचित्तलाभरूपफलयोगस्य सिद्धिरेवाऽस्ति महास्तोत्रस्य स्वयं पठनेन वाऽन्येषां पार्श्वे तत्तुल्यान्यस्तोत्रेण स्योगय सिद्धि भवति, तदेव ज्ञापकरूपप्रमाणम् ( प्रमाणमन्तःकरणप्रवृत्तय इति सूक्तेः) एतद्वस्तुनःप्रवचनसिद्धत्वेन कथ्यते ज्ञापकं वा जिनवचनं (द्विप्रकारमुक्तं प्रवचनार्थदेशः, तदेव व्यनक्ति-" शब्दोक्तं " सूत्रादिष्टमेव अर्थोक्तं, सूत्रार्थयुक्तिसामर्थ्यागतम् ) द्विविधमुक्तमस्ति-(१) शब्दोक्तं (२) अर्थोक्तं च सूत्रे-अक्षरश उक्तं शब्दोक्तं शब्दोल्लेखि शब्दोक्तत्वाभाववद् यत् सूत्रार्थयुक्तिसामर्थ्यागतं यथा यदुच्चार्यमाणमहास्तोत्रपदपदार्थस्याज्ञेन तत्समानान्यस्तोत्र श्रवणं, तदेतदर्थोक्तं वर्तते, अर्थतःशब्दोल्लेखाभावेऽपि तच्छ्वणे चैत्यवन्दनायाः शुभचित्तलाभरूपार्थों विद्यमानोऽस्ति, एतद् वस्तु, अर्थात्, शास्त्रकथितं गण्यते एवं च सति परैरुपहासबुद्धया प्रस्तुतस्य-चैत्यवन्दनस्यासारता (साररहितता) आपादनाय-(आपत्तिदानाय ) यदुच्यते तन्न किञ्चिद्, तद्यथा-तथाहि "अलमनेन क्षपणकवन्दनाकोलाहलकल्पेन अभाविताऽभिधानेन" क्षपणकानां-मुनीनां (अर्थान्मुनिआदि-चतुर्विधसंहितानां) वर्तमान-चैत्यवन्दनाद्वाराजनितकोलाहलसदृशेन-एतादृक् सहोच्चाररूपाडम्वरतुल्येन, अनेन-चैत्यवन्दनेनालं-(कृतं सृतं) इति तन्न किश्चित्-उक्तवदभाविताऽभिधानायोगात्, __अर्थात्-यतःपूर्वकथितकथनवत् , अभावितं-भावरहितं तस्याभिधानस्य-कथनस्यायोगःअभावो वर्तते, ___ कथमिति चेत्-स्थानवर्णादियोगचतुष्ट्यगर्भितत्वेन भावसारत्वं-भावप्रधानत्वं तत्र वर्तते, भावितानुष्ठानं वर्त्तते. तस्मात् , अपरस्य-अभावितानुष्ठानस्य शास्त्रबाह्यत्वं कथ्यते,स्वतन्त्र-स्वच्छन्दिपुरुषप्रवृत्त्याशास्त्रनिरपेक्षस्वच्छन्द-कपोलकल्पितप्रवृत्त्या, भावितानुष्ठाने वाधस्याभावो वर्त्तते-अबाधितत्वं ज्ञेयं, अन्यथा (अभावितस्य सारत्वमान्यतायां) शुभानुष्ठानमात्रेऽसारताया अतिप्रसङ्ग आयाति, अत एव परोक्तं, आक्षिप्तं न किञ्चिदेवेति. इति प्रणिपातसूत्र-व्याख्या ॥ प्रथम विभागः समाप्त ॥ 286
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy