SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासटीका " अलमनेन क्षपणकवन्दनाकोलाहलकल्पेन अभाविताभिधानेन, " उक्तवदभाविताभिधानायोगात्, स्थानादिगर्भतया भावसारत्वात्, तदपरस्याऽऽगमबाह्यत्वात् पुरुषप्रवृत्त्या तु तद्बाधाऽयोगात्, अन्यथाऽतिप्रसङ्गादिति न किञ्चिदेव । एवंभूतैः स्तोत्रैर्वक्ष्यमाणप्रतिज्ञोचितं चेतोभावमापाद्य पञ्चाङ्गप्रणिपातपूर्वकं प्रमोदवृद्धिजनकानभिवन्द्याचार्यादीन् गृहीतभावः सहृदयनटवत्, अधिकृतभूमिकासम्पादनार्थं चेष्टते वन्दनासम्पादनाय ॥ ( इति प्रणिपातसूत्रव्याख्या ) | पं० ..." यथेत्यादि " यथाभावं - यथायोग्यं “ स्थानवर्णार्थालम्बनगतचितः ” स्थानंयोगमुद्रादि, वर्णाः – चैत्यवन्दनसूत्रगताः, अर्थः- तस्यैवाभिधेयम्, आलम्बनं - जिन प्रतिमादि, तेषु गतम्-आरूढं चित्तं यस्य स तथा, यो हि यत्स्थानवर्णार्थालम्बनेषु मध्ये मनसाऽवलम्बितुं समर्थः तद्गतचित्तः सन्नित्यर्थः ॥ द्विविधेत्यादि ” द्विविधं - द्विप्रकारमुक्तं प्रवचनार्थदेशः, तदेव व्यनक्ति - " शब्दोक्तं " सूत्रादिष्टमेव " अर्थोक्तं " सूत्रार्थयुक्तिसामर्थ्यगतं ॥ ।। इति श्रीमुनिचन्द्रसूरिविरचितललित विस्तरा पञ्जिकायां प्रणिपातदण्डकः समाप्तः ॥ टी..... तदेतत् प्रणिपातदण्ड कंसूत्रं ( नमोत्थुणं सूत्रं ) एष साधुः श्रावको वा यथोदितं (यथाकथितं तथा ) पठन् - भणन् पञ्चाङ्गप्रणिपातं ( हस्तद्वयजानुद्वयमस्तकरूपपञ्चाङ्गेभूमिस्पर्शनपूर्वकप्रणामं ) अर्थात् पञ्चाङ्गीमुद्रया प्रणिपातं ( इह प्रतिपातशब्देन 'क्षमाश्रमणमुच्यते' इति श्री दे. चैत्य श्रीधर्म. संघाचारविधौ पृ. २४३ ) करोति. 66 मूयश्च ( पुनश्च ) पादपुञ्छनादि - ( आसनविशेषादि ) आसनादि - निषण्णः ( उपविष्टः ) साधुः श्रावको वा यथाभावं (परमकुशलाशयपूर्वकं) स्थानवर्णार्थालम्बनगतचित्तः: := (१) स्थानयोगदत्तचित्तः = योगमुद्रादिमुद्राचतुष्टये प्रणिहितचितो भवेत् . (२) वर्णयोगदत्तचित्तः=वर्णयोगे (सूत्रयोगे ) अर्थात् सूत्रगतान्यक्षराणि, अत्यन्तस्पष्ट 283
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy