SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासटीका वस्तुनि अनन्ता धर्माःकया रीत्या तिष्ठन्ति सा पद्धतिर्नीतिर्दयते अत्र जैने शास्त्रे सौवर्णों घटो दृष्टान्तरूपोऽस्ति.. (१) यथाहि=एकःसौवर्णों घटः-स्वद्रव्यक्षेत्रकालभावविवक्षया विद्यते (अस्ति) परद्रव्यक्षेत्रकालगावविवक्षया न विद्यते, इति सिद्धान्तस्त्रैकालिको वर्तते -यदैको घटः, सत्त्वज्ञेयत्वप्रमेयत्वादिधर्मंश्चिन्त्यते, तदा तस्य ये सत्त्वादयो धर्माः स्वपर्यायाः तेषु कश्चिदपि धर्मः परपर्यायो नास्ति, यतो वस्तुमात्रं सत्त्वादिधर्मापेक्षया सजातीयमेव, अभावस्तु विजातीयस्यैव कथ्यतेऽर्थात् केनचिदपि व्यावृत्ति न संभवति, यदा द्रव्यतः, घटा, पौगलिको विवक्ष्यते तदा तु यत्पौगलिकत्वं तद् द्रव्यत्वेनाऽस्ति तथापि धर्माऽधर्मादिरूपेण नास्ति, अत्र 'पौद्गलिकत्वं' स्वपर्यायोऽस्ति, धर्मजीवा द्यनेकेभ्यो व्यावृत्ते धर्मादिद्रव्यत्वं परपर्यायोऽस्ति, स त्वनन्तधर्मात्मकोऽस्ति. यतो जीवद्रव्यमनन्तधर्मात्मकमस्ति । (२) घट पौगलिकःसन्नपि पार्थिवत्वेन रूपेण विद्यमानोऽस्ति, जलत्वादिरूपेणाऽविद्यमानोऽस्ति, तत्र पार्थिवत्वं स्वपर्यायोऽस्ति, तस्यैतज्जलादिबहुद्रव्यतो व्यावृत्तिरस्ति, एष परपर्यायोऽनन्तोऽस्ति, एवमग्रेऽपि स्वपर्यायव्यक्तिरवधार्या. (३) घट्टः पार्थिवः सन्नपि धातुत्वरूपेणाऽस्ति, मृत्त्वरूपेण नास्ति धातुत्वेऽपि सुवर्णत्वे नास्ति, रौप्यादिरूपेण नास्ति, सुवर्णमपि घटितवस्तुरूपेणाऽस्ति, अघटितवस्तुरूपेण नास्ति, घटितसुवर्णरूपोऽपि देवदत्तघटित-वस्तुरूपेणास्ति देवदत्तादि-घटितोऽपि पृथुबुध्नाद्याकारेणास्ति, मुकुटाद्याकारेण नास्ति, पृथुबुध्नाद्याकारवानपि, वृत्तरूपेणाऽस्ति, अवृत्तरूपेण नास्ति, वृत्तोऽपि स्वाकारेणाऽस्ति, अन्यघटाद्याकाररूपेण नास्ति, स्वाकारोऽपि स्वकपालाभ्यामस्ति, परकपालाभ्यां नास्ति, एवं रीत्या येन येन पर्यायेण घटादेव्यस्य विवक्षा भवेत् , स स पर्यायः, विवक्षितघटादि-द्रव्यस्य स्वपर्यायः, तद्भिन्नास्ते सर्वे परपर्याया एवं द्रव्यतः स्वपर्यायाः स्वल्पे भवेयुश्च व्यावृत्तिरूपपरपर्याया अनन्ता भवेयुर्यतोऽनन्तरूपेण ते व्यावृत्ताः सन्ति. इति स्वद्रव्यपरद्रव्याभ्यां सन्तोऽसन्तश्च पदार्था उच्यन्ते. क्षेत्रापेक्षया घटः सन्नसंश्व एष घटः त्रिलोकवर्तित्वरूपेण विवक्षितोऽस्ति, कुतोऽपि व्यावृत्तो नास्ति, अत एष स्वपर्यायोऽस्ति, परपर्यायो नास्ति, त्रिलोकवर्त्यपि तिर्यगलोकवर्तित्वरूपेणाऽस्ति. ऊर्ध्वाधोलोकवर्तित्वरूपेण नास्ति, तिर्यग्लोकवर्ती, अपि जम्बूद्वीपवतित्वरूपेणाऽस्ति. द्वीपान्तरवर्तित्वरूपेण नास्ति, तादृशोऽपि घटः, एतद् भरतवतित्वरूपेणाऽस्ति, भरतान्तरवर्षवर्तित्वरूपेण नास्ति, गृहेऽपि अमुकप्रदेशवर्तित्वरूपेणाऽस्ति, अपरप्रदेशवर्तित्वरूपेण नास्ति, क्षेत्रतः स्वपर्यायाः स्वल्पाः सन्ति, परपर्यायाः असङ्ख्याताः सन्ति, 268
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy