________________
ललित विस्तरासटीका
समाधानम् = [ = 'तदाधिपत्यतो' भगवदाधिपत्यतः, भगवन्त एव तच्चितवृत्तेस्तज्जन केषु हेतुषु प्रधानत्वेनाऽधिपतयः, अर्थात् सकलाऽर्हद्विषयक - तादृशनमस्काररूपचित्तवृत्तेरुपरिभगवता - माधिपत्यं ( प्रधानकारणत्वं ) भवत्यतः (भगवन्त एव तादृशनमस्काररूपचितवृत्तेस्तादृशप्रमोदातिशयजनकहेतुषु प्रधानत्वेनार्हन्त एवाधिपतयः - अग्रिमपरमालम्बनमृताः, अर्थादनेक- भगवदधीना तादृशनमस्काररूपचित्तवृत्तिरस्ति, तादृशनमस्काररूपचित्तवृत्तेरधीनं हर्षोत्कर्षरूपं तादृशं फलं भवति. )
'तत एव' भगवद्भ्य एव 'तद्भावात् ' क्रियाफलभावात् अर्थात् तादृशविशिष्ट चित्तवृत्तिद्वारा, नमस्कारक्रियाजन्यप्रमोदातिशयरूपं फलं प्रति, अर्हन्तो भगवन्त एव अमोघ (पुष्ट - परम - प्रबल ) आलम्बनरूपकारणमस्ति, अत एव तत्फलं भगवद्भ्य एव इति कथने न कोsपि बाधः, चिन्तामणिरत्नादौ तथा दर्शनाद् चिन्तामण्यादौ विधितः प्रणिधानादेः (मनस एकाग्रता - विविध साधनाप्रवृत्ते ) अर्थादेकध्येयस्थिरचित्तवृत्तिरूपप्रणिधानादि-निष्पाद्य - फलं तच्चिन्तामणिरत्नादितो भवतीति लोके प्रतीतिदर्शनात् (प्रतीतिव्यवहाराभ्यामर्थसिद्धिरिति नियमात् ) तथाचालम्बनीय (प्रकृत — क्रियाया आलम्बन - योग्य - विषये चिन्तामणिरत्नादावर्हत्सु भगवत्सु ) उपकाराभावे सत्यपि तदालम्बक (नमस्कर्त्ता - आराधक - पूजक - उपासक) स्येष्टसिद्धिरवश्यं भवति.
शङ्का=यदि सर्वार्ह विषयक नमस्काररूपपूजयैव प्रमोदातिशयरूपं फलमस्ति, एकस्यार्हतः पूजायां सर्वार्हत् - पूजायाः समावेशो भवतीति यत् - शास्त्रीयवचनं यदुत 'एगम्मि पूयम्मि सव्वे ते पूइया होंति' (अधिकृतै कार्हत् - पूजायां सकलार्हत्पूजालाभो भवति) तद्वचनस्य सङ्गतिः कथं ? कथमेक - पूजया सर्वपूजाऽभिधानं ?
समाधानम् = (१) इदं शास्त्रीयं वचो युक्तियुक्तं यदर्हतां गुणगणद्वारा एकस्यार्हत आराधनं, क्षेत्रे काले च सर्वस्मिन् स्थितानां सर्वेषामर्हतामाराधनारूपमस्ति, किञ्च - एकस्या - प्यर्हतः, अवज्ञा (अविनय - आशातना - अबहुमानादि) करणं सकलजगद्वर्तिनामर्हतामवज्ञाऽबहुमानाशातनादिकरण- समानत्वे महापायकारणं, अन्यच्च तत एव, अर्हतां वन्दना बहुमानादि द्वारा (साक्षात् - अव्यवहितत्वेन ) सर्वतीर्थकराणां भक्तिबहुमानादि - जन्यफलं प्राप्यते, शास्त्रीयवाक्यमिदं वैयावृत्त्यादौ योजनीयम्, किञ्चैकव्यक्तिरूप - विशेष - विषयक - एकस्य पूजया सर्वविषकपूजा भवत्येव
अयं कथनस्योद्देशः = यथाऽयमेक व्यक्तिरूप - तीर्थकर - विशेषः, यादृशय । वद्गुणविशिष्टोऽस्ति तावतादृशगुणवन्तः सर्वे तीर्थङ्कराः सन्ति, न गुणेषु तारतम्यं वर्त्तते, इत्येव सर्वेषामेषां
256