SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासटीका तथा च तत्स्वभावत्वविशिष्टनिरावरणत्वरूपनिर्दुष्टहेतुनाऽर्हत्सु भगवत्सु सर्वज्ञत्वसर्व . दर्शित्वरूपसाध्यस्य सिद्धिः । प्रकृतहेतुआदिघटना=अर्हतां भगवतां केवलज्ञानं केवलदर्शनं च स्वभावोऽस्ति, तत्र स्वभावे स्वभावत्वमस्ति, तथा केवलज्ञानदर्शनयोः, तदावरणरूपप्रतिबन्धकस्य सर्वथा राहित्यमस्ति, ततस्तत् केवलज्ञानदर्शनरूपस्वभाववन्तोऽर्हन्तो भगवन्तः सर्वज्ञाः सर्वदर्शिन उच्यन्ते । केवलज्ञानकेवलदर्शनयोः आत्मद्रव्यस्य स्वभावताऽस्ति 'मत्तोऽन्ये' इत्यादिवाक्येनोच्यते । तत्तत्स्वभावत्वसिद्धिः=एकदाऽस्मिन्नार्यावर्त, स्याद्वादिनाहिता भगवता, द्रव्याणि च पर्यायाश्च मिथो भिन्ना अपि चाभिन्ना अपि सन्त्येवं प्रवचनं चिकीर्षया, स्वशिष्याणामप्रतोऽ. त्यन्तसमीप-वर्तित्वेन, स्वयं स्वं (स्वात्मानं) उद्दिश्य प्ररूपितं यत् लक्षण-सङ्ख्या -प्रयोजनसंज्ञाभेदापेक्षया, मत्तः-मत्सकाशात् ( स्वात्मद्रव्यतः ) गुणाः-ज्ञानदर्शनोपयोगाद्या गुणा भिन्नाः सन्ति, यथाहि (१) लक्षणभेदापेक्षया द्रव्यपर्याय (गुण) भेदः='गुणपर्यायवद् द्रव्यम् ' (तत्त्वा. अ. ५. सु. ३७) गुणपर्यायविशिष्टं द्रव्यं कथ्यते (पदार्थेषु द्विधा धर्माः सन्ति, एकःसहभावी धर्मः, द्वितीयस्तु क्रमभावी धर्मः, सहभाविनो धर्मा 'गुणाः' इति कथ्यन्ते, क्रमभाविनो धर्माः 'पर्याया' इति कथ्यन्ते. अत एवैकस्मिन् द्रव्ये द्वित्राद्या धर्माः सहस्थितिका गुणाः यथाहिआत्मनि यत्किचिज्ज्ञानरूपविज्ञानव्यक्तिः उत्तरज्ञानाकारपरिणाम-योग्यतारूपविज्ञानशक्तिः सुखं, यौवनं ज्ञानं योग्यताद्या धर्माः युगपत् तिष्ठन्ति ते 'गुणाः' किश्चात्मनि यथा सुखसमये दुःख न भवेत, यौवनकाले वृद्धावस्था न भवेत्, हर्षकाले शोको न भवेत् , अर्थादात्मनि युगपद्. ये न तिष्ठन्ति ते धर्माः क्रमभावित्वेन 'पर्यायाः' कथ्यन्ते यथा नारकमनुष्यसुखदुःख-हर्षशोकवृद्धत्वयौवनाद्याः पर्यायाः कथ्यन्ते. ) आत्मगुणाः=ये धर्मा आत्मनि युगपत् स्थातुं समर्था भवन्ति ते ‘गुणाः ' आत्मपर्यायाः ये धर्मा आत्मनि युगपन्न तिष्ठन्ति च क्रमेण तिष्ठन्ति ते 'पर्यायाः' एतादृशसूत्रप्रमाणेनाहं गुणपर्यायवश्वरूपलक्षमवानस्मि, अर्थात् 'आत्मद्रव्यमेवाहं ' यतो द्रव्यं तदेव कथ्यते यत्र गुणपर्यायाः सन्ति, मयि गुणपर्यायाः सन्ति, तस्मादहं द्रव्यमेव, द्रव्यस्य यथालक्षणं भिन्न तथा गुणस्य लक्षणमपि भिन्नमस्ति. तथाहि-' द्रव्याश्रया निर्गुणा गुणाः ' (तत्त्वा. अ. ५ सू. ४०) द्रव्याश्रिता गुणरहिता धर्मा गुणाः कथ्यन्ते, अर्थाद् द्रव्यमाश्रित्य 225
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy