SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासटीका यावत्स्वरूपस्थितेभ्यो मुक्तेभ्यः) तत्त्वतः मुख्यवृत्तितः, अर्हन्तो भगवन्तो भवन्ति, अर्थाद् मुक्तेभ्यो मोचकेभ्योऽर्हद्भ्यो भगवद्भ्यो नमो नमः । शक्रस्तवस्य आत्मतुल्यपरफलकर्त्तत्वरूषाऽष्टमीसम्पद उपसंहारः एवं जिनजापकतीर्णतारकबुद्धबोधकमुक्तमोचकभावेन स्वपरहितसिद्धरात्मतुल्य परफलकर्त्तत्वसम् पदिति, अर्थाज्जिनजापकभावेन तीर्णतारकभावेन-बुद्धबोधकभावेन तथा मुक्तमोचकभावेन स्वपरहित (स्वपरकल्याण) स्य सिद्धि भवति. 'जिणाणं पदतो मूत्ताणं मोयगाणं' पदपर्यन्ता चतुष्पदी सम्पत् ‘स्वतुल्यपरफलकर्तृत्व' सम्पत् कथ्यते, यत एतच्चतुष्पद्यां सम्पदि अर्हता यादृशं स्वस्वरूपं तादृशं स्वरूपरूपं फलं पर-अन्यभक्तभव्यजीवानामर्हन्तो भवन्तः कुर्वन्ति, तेभ्यो ददति ते, एतत्सम्पदः 'निजसमफलदे 'ति द्वितीयं नामोच्यते, ( एवं चात्र पठनीयः श्लोकः “नात्यद्भुतं भुवनभूषणभूत ! नाथ !, भूतैर्गुणै भुवि भवन्तमभिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा, मूत्याश्रितं य इह नात्मसमं करोति” भ. स्तो. श्लो. १०) इति शकस्तवस्य त्रिंशत्तमपदस्य व्याख्या समाप्ता । अथ शकस्तवस्य एकत्रिंशत्तमपदस्य व्याख्यारम्भः अथ त्रिभिः पदैः क्रमेण भगवतां प्रधानगुण-अक्षयस्थिति-प्रधानफलाऽवाप्त्यभयनामकमोक्षनामिका-नवमी-सम्पदो विवेचनात्पूर्व प्रथमपदस्य व्याख्यातः पूर्व प्रथमपदस्यावतरणिकाया अवतारः ___ एतेऽपि बुद्धियोगज्ञानवादिभिः कापिलैरसर्वज्ञा असर्वदर्शिनश्चष्यन्ते, “बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते” इति वचनाद् , एतन्निराकरणायाह सर्वज्ञेभ्यः सर्वदर्शिभ्यः” सर्वं जानन्तीति सर्वज्ञाः सर्वं पश्यन्तीति सर्वदर्शिनः, तत्स्वभावत्वे सति निरावरणत्वात् , मत्तोऽन्ये मदर्थाश्च गुणा इत्यतस्तत्तत्स्वभावत्वसिद्धिः, उक्तं च" स्थितः शोतांशुवजीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवद् ॥१॥” इत्यादि, न करणाभावे कर्ता तत्फलसाधक इत्यनैकान्तिकं, परि 219
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy