________________
ललितविस्तरासष्टीका
तेषां वचनमस्ति, यद् 'ब्रह्मवद्द्ब्रह्मसंगतानां स्थिति' रिति, यथा ब्रह्म तथा ब्रह्मसंगतानांब्रह्मणि लीनानां-एकीभूतानां मुक्ताऽऽत्मनां स्थितिः-अवस्थानमिति.
एतादृस्य सन्तपनशिष्याणां मतस्य निराकरणायाऽऽह'मुक्तेभ्यो मोचकेभ्योऽर्हद्भ्यो भगवद्भ्यो नमो नमः' ।
मुक्ता:-चतसृणां गतीनामनुभवरूपविपाकतः, तद्विपाककारणभूतनानाविधज्ञानावरणीयादिरूपाष्टविधकर्मणो वन्धतो मुक्ताः-कृतकृत्या ( परमार्थतो निष्ठितार्थाः संसारे किमपि कार्यमपूर्ण नास्ति, सर्वथा निष्ठितार्थाः ) निष्ठितार्था इति.
ननु आश्रयरूपे ब्रह्मरूपे जगत्कत्तैरि, अभिन्नरूपेण एकस्थित्याऽवस्थानरूपे लये स्थितानां मुक्तानां ब्रह्मकार्यकरणेन सर्वथा निष्ठितार्थता कथं घटमाना स्यात् ? इति चेदुच्यते,
__ जगतः करणेन-रचनेन कृतकृत्यत्वाभावो वर्तते तथा च हीनकरणेन (नारकादिकरणेन) तिर्यड्मनुष्यादिरूपमध्यमकरणेन उत्कृष्ट-देवादिसृष्टिकरणेनापरिमितेच्छाद्वेषरागादिप्रसङ्ग-प्राप्तिः स्यात्, अर्थाद् ब्रह्मणि वा तदभिन्नमुक्तेषु पूर्वोक्तापत्तिः स्यात् , कथमिति चेत् कथ्यते, अपरिमितेच्छाद्वेषरागादिदोषान् विना जघन्यमध्यमोत्कृष्टसृष्टिरूपविचित्ररचनाघटनाभावः, एतादृश्येव स्थिति यंदा विचित्रसृष्टिसर्जनेऽस्ति तदा सामान्यमनुष्यस्य तिरश्चौ वा कक्षातोऽतिहीनकक्षायां मुक्ताः कथं ना पतेयुः, अर्थाद् हीनाऽतिहीनस्थितिषु मुक्तेषु कीदृशी मुक्तत्ववार्ता ? इच्छाद्यन्तरेण वैचित्र्येण प्रवृत्त्ययोगाद् विचित्रजगत्करणे मुक्तानां रागद्वेषादिप्रसङ्गः ।
अर्थाद् युष्माकं मते परिमितेच्छाद्वेषादिदोषवन्तोऽन्ये, आत्मानः सृष्टिसृष्टावसमर्थाः किञ्च, सृष्टिकर्तृत्वेन ब्रह्मा च तदभिन्नमुक्तात्मानोऽभिमताः परन्तु एवं मते ब्रह्मा वा तदभिन्ना मुक्तात्मानोऽपरिमितेच्छाद्वेषरागादिदोषसम्पन्ना अभिमता भवेयुरिति मन्तव्यत्वे सामान्यसंसारितोऽप्यतिहीनकक्षासम्पन्नतास्वीकारे महादोष आपतिष्यति-एवं सामान्यसंसारिणोऽविशिष्टतरं मुक्तत्वमिति चिन्तनीयम् ननु दृश्यमानैषा जगतो विचित्रलीला कर्मनिर्मिता, तथापि विचित्रसृष्टेः संचालका ब्रह्मा वा तदभिन्नाः मुक्ता निमित्तकारणं कथं न ? इति चेदुच्यते. निमित्तकर्तत्वेति-रागद्वेषेच्छादिदूरीकरणाय वादिना यत्कथितं निमित्तकर्तत्वं ब्रह्मणो वा मुक्तानामिति, एतद्विषयखण्डनायाह-ब्रह्मणो-मुक्तानां च प्रतिपन्नं कर्तृत्वमान्निमित्तकारणेन स्वीकृतं पुरुषे कर्तृत्वं, तत्त्वतोऽकर्तृत्वमेव, यतः, निमित्तकारणरूपे कर्तरि पुरुषे 'स्वतंत्रः कति यत् कर्तृलक्षणं तन्न घटेत (स्वातन्त्र्य इतरव्यापारानधीनव्यापारवत्त्वं-(एव च वैयाकरणभूषणसारे) स्वेच्छाधीनप्रवृत्तिनिवृत्तिकत्त्वमपि स्वातन्त्र्य' लघुमञ्जषायां)
1217