________________
ललितविस्तरा-सटीका
मपि न तिष्ठेत्-प्राककर्मणः सत्ता-विद्यमानतासीन्न वेत्यपि न भासेत, तथाऽवरणप्रलयोऽभूत , पश्चादपि मूलाभावेन न कर्मणो भाविसत्ता, अपुनर्भवेन कर्माऽत्यन्तध्वंस: क्षयः । न च जीवप्रदेशैः सह निविभागतया बद्धस्याऽऽवरणभूतकर्मण: क्षय एव कथमु पपादयितुं शक्य इति वाच्यम्, पूर्वोक्तस्वरूपावरणकर्मणः - पौद्गलिकावरणरूपकर्मणः क्षयश्च प्रतिपक्षसेवनया ।।
आवरण-बन्धतद्विरोधिहेतवः
मिथ्यात्वाविरतिकषाययोगप्रमादान प्रति सम्यक्त्व-विरति-क्षमादि-योगनिरोधव्रतादि-स्मरणपुण्यानुबन्धि-पुण्यकार्येषु समादरयोगसुप्रणिधानाप्रमादाः प्रतिपक्षिणः ।
ज्ञानावरणीय-दर्शनावरणीय-कर्मबंधहेतवः
ज्ञान-ज्ञानि-ज्ञानोपकरणदर्शनदर्शनिदर्शनसाधनप्रत्यनीकता, गुरुनिह्नवता, ज्ञानदर्शनादिसाधनानां मूलनाशः, (उपघातः) ज्ञानादि प्रति हार्दिकारुचिरूपद्वषः, ज्ञानार्थिदर्शनार्थिनां भणनादौ विघ्नकरणं, ज्ञानिदर्शनिनां निन्दादिकरणमित्यादयः ज्ञानावरणीय- ' दर्शनावरणीयबन्धहेतवो ज्ञेयाः ।
तद्विरोधिहेतू ज्ञानाचारदर्शनाचारौ
ज्ञानाचार:- काले विनये बहुमाने उपधाने अनिह्नत्वे व्यंजनार्थतदुभयौं इत्यष्टधा ज्ञानाचारः, निशङ्कितता निष्काङक्षता निर्विचिकित्सता-अमूढदृष्टिकता, उपबृहणस्थिरीकरणवात्सल्यप्रभावनादिकोऽष्टधा दर्शनाचारः ।
दर्शन-मोहनीयकर्मबन्धहेतवः
उन्मार्गदेशना-मार्गनाशना-देवद्रव्यहरणः,जिन-मुनि-चैत्यसंघादि-प्रत्यनीकतादिभिः, दर्शनमोहः ।
तद्विरोधिहेतवो दर्शनाचारे दर्शिताः ।
चारित्रमोहनीयकर्मबन्धहेतवः कषायादयः । तद्विरोधिनः-चारित्राचारे दर्शिता हेतवः तद्यथा पंचसमितिगुप्तित्रयरूपश्चारित्राचारो ज्ञेयः,
आवरणक्षयस्य हेतुषु वीर्याचारतपआचारभावनादि विज्ञेयः ।
193