SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका 'सुसंवृतः' (सर्वथाऽनुद्घाटित-अप्रकटितः-सुस्थगितः) कांचनै रत्नैः सुसंभृतः करण्डकोऽस्ति तस्य प्राप्ति लाभः तत्समाना हिः- यस्मात्प्रथमधर्मस्थानप्राप्तिः-धर्मप्रशंसादिरूपा प्रथमधर्मस्थानप्राप्तिः, तथाहि = कश्चित् क्वचिदनुद घाटितं कांचनरत्नकरण्डकमवाप्नुवंस्तदन्तर्गतं कांचनादि वस्तु विशेषतोऽनवबुध्यमानोऽपि लभते एवं भगवन्तोऽपि प्रथम धर्मस्थानाऽवाप्तौ मोक्षावसानां कल्याणसंपदं तदाऽनवबोधेऽपि लभन्ते एव, तदवन्ध्यहेतुकत्वात्तस्याः, अर्थाद् भगवन्तोऽपि प्रथमधर्मस्थानप्राप्तौ, तत्रस्थकांचनादिवत् सुफलादिकमजानन्तोऽपि धर्मसारथित्वादिसत्फलगभितमोक्षपर्यन्तां कल्याणसंपदं वरमालां वृणते, यत आद्यस्थानप्राप्तिरवन्ध्यबीजरूपहेतुरूपाऽस्ति, मोक्षपर्यन्तकल्याणसंपतप्राप्तिरूपकार्य प्रति अवश्यफल - संपादन - समर्थाऽद्यस्थानप्राप्तिर्हेतुरेवेति । तदेवं धर्मस्यसारथयो धर्मसारथयः । इति-एवं शक्रस्तवस्य धर्मसारथिरूपस्य त्रयोविंशतितमपदस्य व्याख्या समाप्ता । शक्रस्तवस्य धर्मवरचातुरन्तचक्रवर्तिरूपस्य चतुर्विंशतितमस्य पदस्य प्रकृष्ट व्याख्यानम् - तथा 'धम्मवरचाउरंतचक्कवट्टीणं' धर्मोऽधिकृत एव, स एव वरं-प्रधानं, चतुरन्तहेतुत्वात् चतुरन्तं, चकमिव चक्रं, तेन वत्तितुं शीलं येषां ते तथाविधाः, इदमत्र हृदयम्-यथोदितधर्म एव वरं-प्रधानं चक्रवर्तिचक्रापेक्षया लोकद्वयोपकारित्वेन कपिलादिप्रणीतधर्मचक्रापेक्षया वा त्रिकोटिपरिशुद्धतया चत्वारो-गतिविशेषाः, नारकतिर्यनरामरलक्षणाः तदुच्छेदेन तदन्तहेतुत्वाच्चतुरन्तं, चतुभिर्वाऽन्तो यस्मिस्तचतुरन्तं, कैश्चतुभिः ? दानशीलतपोभावनात्यर्द्धम्मः, अन्तः प्रक्रमाद्भवान्तोऽभिगृह्यते, चक्रमिव चक्रमतिरौद्रमहामिथ्यात्वादिलक्षणभावशत्रुलवनात्, तथा च लूयन्त एवानेन भावशत्रवो मिथ्यात्वादय इति प्रतीतं, दानाद्यभ्यासादाग्रहनिवृत्त्यादिसिद्धः, महात्मनां स्वानुभवसिद्धमेतत् । एतेन च वर्तन्ते भगवन्तः तथाभव्यत्वनियोगतो वरबोधिलाभादारभ्य तथातथौचित्येन आसिद्धिप्राप्तेः, एवमेव वर्तनादिति । .. तदेवमेतेन वत्तितुं शीला धर्मावरचतुरन्तचक्रवर्तिनः २४ ॥ एवं धर्मदत्वधर्मदेशकत्व-धर्मनायकत्व-धर्मसारथित्व-धर्मवरचतुरन्तचक्रवत्तित्वविशेषोपयोगसिद्ध: स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पद् इति ६ ॥ ... 182
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy