SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा - सटीक सम्पादयन्ति, अर्थात् परोपकार सम्पादन हेतुना 'धर्मोत्तमाऽवाप्तिरूपसाध्यस्याश्रयभूता अर्हन्तो भवन्तीति सिद्धम्, ये धर्मोत्तमावाप्तिसम्पन्नास्तेऽवश्यं परार्थघटका एव अस्मात् कारणात् परार्थसम्पादनमुद्रया धर्मोत्तमावाप्तिसम्पन्नता निश्चीयते । (३) एवं होनेsपि प्रवृत्तेः, अश्वबोधाय गमनाकर्णनात् । यथा भगवतां धर्मोत्तमाऽवाप्तिरूपसाध्यं प्रति प्रधानक्षायिकधर्मावाप्तिः परार्थसम्पादनं च हेतू भवतस्तथा होनेऽपि ( मनुष्यादिभिन्नतियं गादावपि ) भगवतां परार्थसंपादानरूपप्रवृत्तेः, हीनं प्रत्यपि मनुष्यादिभिन्नजातिमन्तं प्रत्यपि परार्थ संपादनप्रवृत्तिरूपहेतुना धर्मोत्तमावाप्तिरूपसाध्यस्याधिकरणभूता भगवन्तः सन्ति एवं सिद्धमेव यथा शास्त्रे श्रूयते चाश्वस्य प्रतिबोधाय श्रीमान् भगवान् मुनिसुव्रतस्वामी भृगुकच्छपुरे " समाजगाम, 1 (४) तथा तथाभव्यत्वयोगात्, अत्युदारमेतेषाम् == यथा भगवतां धर्मोत्तमावाप्तिरूपसाध्यं प्रति 'प्रधानभूतक्षायिकधर्मप्राप्तिः, परार्थसंपादनं, होनेऽपि परार्थसंपादनार्थकप्रवृत्तिः,' साधनानि सन्ति तथा ‘तथाभव्यत्वयोगः’ साधनं तथाहि = एतेषामर्हतामत्यन्तमुदारं ( सत्त्वमात्रं प्रति हिताशय - दान - परोपकारविशिष्टं ) तथाभव्यत्वं विद्यते ( भव्यत्वं सर्वात्मसमानं परन्तु प्रत्येकभव्यात्मनां मुक्तिः समानसामग्रीतो न भवति ततः प्रत्येकात्मनां ' ' तथाभव्यत्वं' भिन्नभिन्नप्रकारकं मन्तव्य तथापि श्रीमदर्हतां 'सहजतथा भव्यत्वं' सर्वेभ्योऽत्यन्तमुदारमस्ति ) तद्योगरूपहेतुना धर्मोत्तमावाप्तिसाध्याधिकरणा भगवन्तो भवन्तीति सिद्धम् । यथा प्रतिहेतुचतुष्कनिरूपणपूर्वकस्य 'धर्मफलपरिभोग' रूपतृतीयमूलहेतो भव्यमीमांसा— भगवन्तो धर्मवशकारा अतो धर्मनायकाः, धर्मोत्तमावाप्तिमन्तोऽतो धर्मनायकाः तथा 'तत्फलपरिभोगयुक्ता' - धर्मस्य सर्वोत्कृष्टं फलं तीर्थंकरपदादि, तत्परिभोगयुक्ता अतोऽर्हन्तो धर्मनायका भवन्ति तथाहि = भगवन्तो ( पक्षः) धर्मफलपरिभोगयुक्ता (धर्मफलपरिभोगोऽत्र साध्यम्) यतः (१) संकलसौन्दर्यं ( साकल्येन रमणीयता 'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयताया:' 'अनुपमलावण्यमनोहरता' 'मुक्ताफलेषु छायायास्तरलत्वमिवाऽन्तरा, प्रतिभाति यदङगेषु तल्लावण्यमिहोच्यते' अपूर्वानिमेषत्वेन नयनाsतृप्तिकारकत्वेन दर्शनरुच्यता, 171
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy