SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका टी.-इह धर्मनायकपदघटकधर्मपदेन, अधिकृत-क्षायोपशमिकादिभावरूपचारित्रधर्म एव ग्राह्यः, तस्य धर्मस्य म्वामिनः-पतयः कथमिति चेत्कथ्यते स्वामिलक्षणयोगवन्तोऽर्हन्त एव नान्ये, ___ अर्हन्तो (पक्षः) धर्मनायकाः (धर्मनायकत्वं साध्यं) धर्मनायकत्वरूपसाध्यस्य साधका हेतवश्चत्वारः सन्ति मूलहेतवस्ते कथ्यन्ते प्रत्येकं (एकैकस्य) स्वप्रतिष्ठापकैः (मूलहेतुप्रतिष्ठाकारकैः) सभावनिकै (आत्मजागृत्यर्थे भावनासहितैः) श्चान्यैश्चतुभिरेव हेतुभि प्रतिहेतुभिरनुगता (व्याप्ता) ज्ञेयाः, धर्मनायकत्वरूपसाध्यसाधकः प्रथमो मूलहेतुः, 'तद्वशीकरणभावरूपः' स्वप्रतिष्ठापकैः सभावनिकैः (मूलहेतुस्वरूपस्पष्टतादर्शकस्वभावैः) मूलहेतुसाधकहेतुभिः, चतुर्भिरवान्तरभेदरूपै, वर्ण्यते, मूलहेतुसाधकावान्तरभेदरूपहेतुः (१) विधिसमासादनं = येषां वश्य एष धर्मोऽस्ति ते धर्मवशिनो भवन्तोऽर्हन्त एवेति. अर्थात्-प्रकृतचारित्रधर्मो भगवद्भिः स्ववशः स्वाधीनः-स्वात्मसात् कृतोऽस्ति, धर्मस्य स्ववशीकरणभाव: साध्योऽस्ति, यतः, तत्र विधिसमासादनं हेतुरस्ति = विधिनैवैष धर्म समासादितोऽस्ति तथा च यथा न्यायेनाऽऽसादितं धनं स्ववश भवति, तथा भगवद्भिः, विधि व सम्पादित एष धर्मोऽवश्य स्ववश्यो भवति, धर्मस्य स्ववशीकरणे कारणं विधिसमासादनं, अर्थाद धर्मस्य स्ववशीकरणभावरूपसाध्यसिद्धौ प्रथमो हेतुरस्ति, (२) यथा प्रथम साधनं धर्मस्य स्ववशीकरणं 'विधिसमासादन' मस्ति तथा धर्मस्य स्वाधीनकरणे द्वितीयं साधनं धर्मस्य 'निरतिचारपालन' तथाहि = भगवद्भिः, अतिचारं (अतिक्रम-व्यतिक्रम-अतिचारादिरूपं दोषं) विना धर्मः पालितो भवति, अत एव धर्मः स्वाधीनो भवति, धर्मस्य स्वायत्तोकरणे द्वितीय साधनं सर्वथा निरतिचारतया धर्मस्य पालनमाद धर्मस्य स्ववशीकरणभावरूपसाध्यसिद्धौ द्वितीय एष हेतु यः, (३) यथा धर्मस्य स्ववशीकरणे 'विधिसमासादननिरतिचारपालने' कै कारणे स्तः, तथा धर्मस्य स्ववशीकरणे तृतीय कारणं धर्मस्य 'यथोचितंदानं' अस्ति, तथाहि = 169
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy