SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका तवत् "तत्रेति" दाने "वचनापेक्षेति" न हि भगवन्तो धम्मंदाने अन्यमुनय इव पराज्ञामपेक्षन्ते, क्षमाश्रमणानां हस्तेन सम्यक्त्वसामायिकमारोपयामीत्याद्यनुच्चारणात् । अश्वबोधाय गमनाकर्णनात् । "अश्वबोधाय गमनाकर्णनादिति," अश्वस्य-तुरङ्गमस्य बोधाय-सम्बोधाय भगवतः श्रीमतो मुनिसुव्रतस्वामिनो भृगुकच्छे गमनश्रवणात्, तथाहि-किल भगवान् भुवनजनानन्दनो द्विषदःसहप्रतापपरिभूतसमस्तामित्रसुमित्राभिधानभूपालकुलकमलखण्डमण्डनामलराजहंसो भवनत्रयाभिनन्दितपद्मापदपद्मावतीदेवीदिव्योदरशुक्तिमुक्ताफलाकारः श्रीमुनिसुव्रततीर्थनाथो मगधमण्डलमण्डनराजगृहपुरपरिपालितप्राज्यराज्यः सारस्वतादिवन्दारकवृन्दाभिनन्दितदीक्षावसरः तत्कालमिलितसमग्रवासवविसरविरचितोदारपूजोपचारः चारकाकारसंसारनिःसारसज्यां प्रव्रज्यां जग्राह, तदनु पवनवदप्रतिबद्धतया निजचलनकमलपांशुपातपूतं भूतलं कुर्वन् कियन्तमति कालं छद्मस्थतया विहृत्य निशातशुक्लध्यानकुठारधाराव्यापारविलूनदुरन्तमोहतरुमूलजालः सकलकालभाविभावस्वभावावभासनपटिष्ठं केवलज्ञानमुत्पादयामास, समुत्पन्नज्ञानं च भगवन्तमासनचलनानन्तरं विज्ञाय भक्तिभरनिर्भरा निखिलसुरपतयो विहितसमवसरणादिरमणीयसपर्याः पर्यायेण यथास्थानमुपविश्य भगवन्तं पर्युपासयामासुः, भगवांश्च सनीरनीरद इव भव्यजन्तुसन्तानशिखिमण्डलोल्लासनस्वभावो भासुराभिनवांजनपूजसकाशकायः कषायग्रीष्मसमयसंतप्तप्राणिसन्तापापनोददक्षो विक्षिप्तान्धकारभामण्डल तडिल्लतालङ कृत स्फुरद्धर्मचक्रकान्तिकलापोत्पादितनभोभूषणाऽऽखण्डलकोदण्डाडम्बर: सौधर्मेशानसुरपतिपाणिपल्लवप्रेर्यमाणधवलचामरोपनिपातप्राप्तबलाकापङिक्तप्रभवशोभः सकलसत्त्वसाधारणाभिः सद्धर्मदेशनानीरधाराभिः स्वस्थोचकार निःशेषप्राणिहृदयभूप्रदेशानिति । ततः प्रवृत्ते तीर्थेऽन्यदा भानुमानिव भगवान् प्रबोधयन् भव्यपद्माकरान् दक्षिणापथमुखमण्डनं जगाम भृगुकच्छाभिधानं नगरमिति, समवससार च तत्र पूर्वोत्तरदिग्भागभाजि कोरिण्टकनामन्युद्याने । अत्रान्तरे निशम्य निजपरिजनाद जिनागमनमानन्दनिर्भरमानसः समारुह्य जात्यतुरङ्गममनुगम्यमानो मनुजवजेनाजगामजगद्गुरुचरणारविन्दवन्दनाय तन्नगरनायको जितशत्रुनामा नरपतिः, प्रणिपत्य सकलकमलानिकेतनं जिनपतिपदकमलमुपविष्टो घटितकरकुड्मलो भगवच्चरणमूले, सम्गकणितवान् कर्णामृतभूतां भगवद्देशनां, तदनु जानन्नपि जनबोधनाय विनयपूर्वं प्रणम्य पप्रच्छ परमगुरुगणधरो, यथा-भगवन्नमुष्यां मनुष्यामरतिर्यक्कुलसङकूलायां पर्षदि कियद्भिर्भव्यजन्तुभिरपूवैरभ्युपगतं सम्यकत्वं, परीतः कृतः संसारसागरः, पात्रोकृतो/निर्वतिसुखानामात्मेति ?, ततः कुन्दकान्तदन्तदीप्तिभिरुद्योतयन्नभोऽङ्गणं जगाद जगन्नाथो, यथा-सौम्य ! समाकणय न केनचित्तुरङ्गरत्नमपहायापरेणेति, ततः श्रुत्वा सर्वज्ञवचनमवोचज्जितशत्रभूपति:-भगवन् ! कौतुकाकलितचित्तो जिज्ञासामि तुरगवृत्तान्तमहं । अन्यच्चभगवन्नहमस्मिन्नश्वरत्ने समारुह्य चलितस्ते चलननलिनम भिवन्दितं, विलोक्य त्रिलोकीतिलकतुल्यं समवसरणमवतीर्णस्तुरङ्गमात्, प्रवृत्तः पद्यामेवागन्तुं, तावत्सकलजन्तुजातचित्तानन्ददायिनी सजलजलदनादगम्भीरां गम्भीरभवपयोधिपोतोपमां समाकर्ण्य भगवद्देशनामानन्दपयःप्लावितपवित्रनेत्रपात्रो निश्चलोकृतकर्णयुगलः समुल्लसितरोमकूपो मुकुलिताक्षः क्षणमात्रमवस्थितोऽसावश्वः, तदनु पुनर्द्धर्मश्रवण 167
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy