________________
ललितविस्तरा-सटीका
कर्मयोगः-क्रियालक्षणः, कर्मग्रहणं इच्छालक्षणस्य प्रणिधानयोगस्य व्यवच्छेदार्थ, सामान्येन ह्यन्यत्र योग: पंचधा, यदुक्तम्-'प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगभेदतः प्रायः। धर्मशेराख्यातः शुभाशयः पंचधाऽत्र विधौ ॥१॥ (इति षोडशके ३ आर्या ६) शुभाशयश्च योगः, "इत्यादीति" आदिशब्दादिच्छायोगादिवचनग्रहः,
टोका-अथ शक्रस्तवस्य 'मार्गदेतिरूपस्य सप्तदशपदस्य व्याख्यानम्-यथार्हन्तो भगवन्तो, अभयदाः, चक्षुर्दाः तथा मार्गदा भवन्ति, अतो मार्गदेभ्योऽर्हद्भ्यो भगवद्भ्यो नमः । मार्गदेतिपदघटकमार्गपदार्थस्य विवरणम् । मार्ग इत्युक्ते ऽयमों विवियते-मार्ग:-मनसः सरलत्वेन गमनम् यथा भुजङगमस्य गमननलिका (शुषिरवंशलक्षणा ययाऽसावन्तः प्रविष्टो गन्तु शक्नोति) अस्ति तस्या आयाम:-दीर्घता, तत्तुल्यः क्षयोपशमविशेषो मार्गः,
विशिष्टगुणस्थानलाभहेतुः, स्वरसवाही, क्षयोपशमविशेषः (दुःखहेतुदर्शनमोहादिक्षयविशेषः) तथाहि यथा भुजङ गमस्य नलिकान्तः प्रवृत्तस्य गमनेऽवक्र एव नलिकायामः समीहितस्थानप्राप्तिहेतुः वक्रे तत्र गन्तुमशक्यत्वात्, एवं मिथ्यात्वमोहनीयादिक्षयोपशमश्चेतसोऽसौ ।
तात्पर्यमिदं = (१) हेतुशुद्धमार्गः-पूर्वकथितमार्गनुसारितत्त्वरुचिश्रद्धारूपहेतुना, चेतसो विशिष्टक्षयोपशमः,
(२) स्वरूपशुद्धमार्गः = स्वगत-विमल-विमलतर-विमलतमस्वरूपेण शुद्धमार्गः,
(३) विविदिषाऽऽदिफलेन शुद्धमार्गः फलरूपशुद्धमार्गोऽत एव हेतुस्वरूपफलतः शुद्ध एष प्रकृतमार्गः, उपशमरूपत्वेन सांख्यदर्शने 'सुखा' 'सुखासिका' रूपत्वेन सम्बोध्यते,
मिथ्यात्वमोहनीयादिक्षयोपशमरूपकारणसत्त्वे सम्यग्दर्शनादिगुणस्थानप्राप्तिरूपं कार्यं भवतीत्यन्वयः, मिथ्यात्वमोहनोयादिक्षयोपशमरूपमार्गाभावे सम्यग्दर्शनादिगुणस्थान-प्राप्तेरभाव इति व्यतिरेकः ।
तथा चास्मिन् क्षयोपशममार्गरूपेऽन्तरङगहेतौ, असति, बहिरङगगुर्वादिसहकारिसद्भावेऽपि सम्यग्दर्शनादिगुणलाभो न, यतः मार्गस्य विषमतया क्षयोपशमविसंस्थुलतया (निरनुबन्धतया व्याकुलतया निम्नतोन्नतया) मनोव्याघातेन पूर्वोक्तगुणस्थानप्राप्तेः प्रतिबन्धसम्भवोऽस्ति, सानुबन्धक्षयोपशम-उत्तरोत्तरानुबन्धप्रभूतक्षयोपशमाद गुणस्थान प्राप्ति र्जायते, सानुबंधक्षयोपशमाभावे पूर्वोक्तगुणस्थानप्राप्तेरभावः ।।
तथा च प्रकृतगुणस्थानं प्रति, अनुबन्धशून्यक्षयोपशमें सत्यपि, अन्तरङगवृत्त्या
145