________________
ललितविस्तारा-सटीका
"अभयवाणमित्यादिसून पञ्चकं' इह भयं सप्तधा-इहपरलोकादानाकस्मादाजीवमरणऽश्लाघाभेदेने, एतत्पोतिपक्षतोऽभयमिति. अर्थात् अभयदेभ्यः, चक्षुर्देभ्यो, मार्गदेभ्यः, शरणदेभ्यः, बोधिदेभ्यः, अर्हद्भ्यो भगवद्भ्यो नमः; एतानि पञ्चसूत्राणि सन्ति. ततस्तत्पमं सूवं व्याख्यायते, अभवेसप्तभयानामभावोऽभयम्, सप्तधाभयमिह--: (१) इहलोकभयं = समानजातीयादे मनुष्यादिकस्यान्यस्मान्मनुष्यादेः सकाशाद् भयं-चित्तविहवलता-चिन्तादिक, .. (२) परलोकभयं = विजातीयात् तिर्यग्देवादेः सकाशात् मनुष्यादीनां भयं, . (३) आदानभयं = धनादिकमादानं, तदर्थे चौरादिभ्यो यद्भयं तदाऽऽवानभयं, (४) अकस्माद्भयं = बाह्यनिमित्तस्यापेक्षां बिना गृहादिष्येक स्वितस्य राज्यादौ जलाग्निम्यो भयं, (५) आजोवभयं = निर्वाहस्योपायेऽन्येनोपरुध्यमाने भयं, निहिसाधनभंगजन्य भयं : (६) मरणभय = प्राणवियोगरूपमरणतो भयं, (७) अश्लाघाभयं = एपमुभयलोकविरुद्ध कार्य क्रियमाणे महती, अपकोतिर्भविष्यतीति तद्भयान प्रवर्तते तदश्लाघाभयं । एतदुक्तसप्तभय-परिहारतोऽभयं भयाभावरूपं ज्ञेयम् । अथ शब्दान्तरपर्यायापेक्षया अभयं निरूपयति. विशिष्ट वक्ष्यमणि-सम्यग्दर्शनादि-मोक्षमार्गरूपगुणमूलकारणत्वेन नियतं व्यापक, "तादात्म्यसम्बन्धविच्छेदेनात्मस्वरूपविस्थानरूपं स्वास्थ्यमभयं, अन्ततो गत्वा मोक्षफलकसम्यग्दर्शनादिबीजभूता (मार्गबहुमानप्रवेशप्रवर्तनादिषु प्रेमरूपी यो गुणस्तस्य) निबन्धनभूता धृतिः (आत्मसम्बन्धिकस्वरूपार्वधारणम्) इत्यर्थः-- एषोऽर्थः परमार्थः, अर्थात् सकलभय-चञ्चलतारूपपरिणामेभ्यः पृथक् पृथक् निर्धारणम्, स्वरूपेणाभभमयोऽहमिति निर्णयः, साडख्यपरिभाषायां धृतिः कथ्यते भगवता. गोपेन्द्रपरिव्राजकेनाभयं धृतिरुच्यत । . .. .
. .. ... .
. ... . . अवाभयत्वधर्मसम्यग्दर्शनादि-धर्मयोरन्वयव्यतिरेकाभ्याम्, कार्यकारणभावः । एतद् विशिष्टात्मीयस्वास्थ्येऽसति निःश्रेयसधर्मसिद्धि न विद्यते यतः एतत्-सन्निधानेन चेतसि वर्तमान-भयरूपोंपद्रवदुःखैः, आत्यन्तिकत्वेन मनसः पीडितत्वं वर्तते, चित्तवत्तिसप्तभयरूपसन्तापा: मानसं भृशं सन्तापयन्ति, चित्तस्य भयग्रस्तदशायां, अभयाभावप्रयुक्तः सम्यगुदर्शनादिमोक्षमार्गाभावः । सम्यग्दर्शनादिरूपाधिकृतधर्मः (कार्य) चितसमाधिमा साध्य:-चेतः स्वास्थ्यरूपंसाधनजन्यः, यतः सम्यग्दर्शनादिरूपधर्म-कार्यस्यैष स्वभावः यच्चतःस्वास्थ्येन साध्यो भवेति नान्यति ।
139