SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका कथमिति चेदुच्यते = असमानदर्शन करणे मति, एकस्वभावापन्नप्रकाशोऽपरद्रष्ट्टसहकारिभूतः पराभ्युपगा-प्रथमद्रष्टमह कारिगं प्रति प्रतिबन्धकों भवति. प्रथमद्रष्टसहकारित्वं, अपरद्रष्ट सहकारिणा प्रतिबध्यतेऽत एगसमानदर्शन क्रिया भवति. अर्थात्, स प्रकाशः, येन स्वभावेन कस्यचिच्चतर्दशपूर्ववेत्तः दर्शनक्रियां प्रति सहकारी भवति, तत्समानं दर्शनमकुर्वन् प्रकाशो द्वितीय चतुर्दशपूर्वविदं प्रति तेनैव स्वभावेन महकारो न भवति. यतो दर्शनभेदं प्रति, अभिन्न-एकरूपप्रकाशस्याभावः कारणं भवति. अर्थात प्रकागभेदेन दर्शनभेदः सिद्धः, कार्यभेदद्वारा निर्णीयते सवंद्रष्ट्टचतुर्दशपूर्ववित्सु दशनभदरूपकार्य भिन्न भिन्न दृश्यते, ततस्तद्दर्शनभेदप्रयोजक-प्रकाशभेदो मन्तव्य एव, तत: प्रथमद्रष्ट्टनिष्ठदृश्यदर्शनसहकारिकारणभूतः प्रकाशो भिन्न-स्वभावः अपरद्रष्टसमवेतदृश्यदर्शनसहकारिभतः प्रकाशो भिन्न-स्वभाव इति मतेनैव सर्वव्यवस्था सुचार्वी रक्षिता भवेन्नान्यथा तथाहि कारणभेदपूर्वको हि निश्चयतः कार्यभेदः, यदि, अविशिष्ट-सामान्यकारणप्रयुक्त विशिष्ट कार्योत्पत्तिप्रतिपत्तो जगतप्रसिद्ध कारणवैचित्र्यं-कारणनानाविधत्वं निरर्थक स्यात् अथवा कार्यकारणविषयकव्याप्तिरूपो नियमोऽव्यवस्थो भूत्वा भङगशीलः स्यात्, नियम: = 'कारण विना कार्य न भवेत-नोत्पद्यत, स्वकार्यकारणं, अन्यकायकारणं न भवेत् ( पटका रणतन्तुः, घटस्य कारण न भवेत्तथा) अन्यथा-विपरीतत्वेन तु कारणं विना कार्योत्पत्तिः, अन्यस्य कारण म्वकाय कारणं स्यातदा क्वचिदपि कार्यकारणनियमरूपा व्यवस्था न भवेत," नियमस्य समन्वयः- इतरेतर पक्षो हि वस्तुस्वभाव:' कारणरूपवस्तस्वभाव: कार्यरूपवस्तुस्वभावमपेक्षते तथैव कार्यरूपवस्तुस्वभाव:' कारणरूपवस्तुस्वभावमपेक्षते इति इतरेतरापेक्षो वस्तुस्वभावः कार्यकारण रूपवस्तस्वतत्त्वं अत एव कार्यस्वभावापेक्षकारण-स्वभावाधीना कार्यसिद्धिर्भवति, यादृशः प्रकाश-रूपःकारणस्वभावस्तादृश दर्शनरूपं कार्यमुत्पद्यते इत्यर्थः । . . प्रकाशभेदरूपका रणभेद योज्यो दर्शनभोदरूप-कार्यभेदों भावत्यतः 'उत्कृष्टचतुर्दशपूर्वविल्लोकमेव = भगवतां प्रज्ञापना (देशनासूर्यप्रकाशरूप) नामकप्रद्योतेन प्रतिपन्नसमस्ताऽभिलाप्यभावकलापा गणधरा एवोत्कृष्टचतुर्दशपूर्वविदः कथ्यन्तेऽर्थांदनन्तगुणवृद्धिरूपोत्कृष्ट वृद्धि-स्थानगतचतुर्दश-पूर्वलब्धिद्वारोत्कृष्ट-चतुर्दशपूर्वविल्लोकमधिकृत्यैव (नान्यान्षट्स्थानहीनश्रुतलब्धीन् पुरुषानधिकृत्य यतो हीनश्रुतलब्धीन् प्रति भगवतां प्रदीपत्वं ज्ञेयं प्रद्योतकरत्वं न) प्रद्योतकरा अहंन्तो भगवन्तो भवन्ति. (प्रज्ञापनीय (अभिलाप्य) भावास्तु, अनभिलाप्यभावानामनंतभागे वर्तन्ते, तेष्वपि च प्रज्ञापनीयभावानामनन्तो भाग एव श्रुते नियोजित एव, यावन्तोऽभिलाप्यभावाः सर्वे श्रुते नियोजयितु शक्या भवेयुस्तहि तज्ज्ञातृणां सर्वेषां ज्ञान समानं कथितं भवेत्, अर्थाद् यद्यपि सर्वे चतुर्दशपूवविदश्चतु. 133
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy