SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका स्वरूपदर्शनादिपूर्वकारूपनारूपहितयोगलक्षण-क्रिया कारणमिति कार्यकारणभावो शेयः॥ अतोऽन्यथा तदनिष्टत्वसिद्धिः तत्कतुंरनिष्टाप्तिहेतुत्वेन, पं०...'अतः' उक्तरूपात् 'यो यं याथात्म्येन पश्यतीत्यादिकात् प्रकागद' "अन्यथा" प्रकारान्तरेण चेष्टायां तदनिष्टत्वसिद्धिः' तस्याः-चेष्टाया, अनिष्टत्वम्-असुखकारित्वं तस्य सिद्धिः-मिष्पत्तिः, कथमित्याह -'तत्कत्तुंः' प्रकारान्तरेण चेष्टाकत्तुंः, 'अनिष्टाप्तिहेतुत्वेन अनिष्टं चेहाशुभं कर्म तम्याप्ति:-बन्धस्तस्य हेतुत्वेन प्रकारान्तरचेष्टायाः, अयमभिप्रायो-विपर्यस्तबोधो विपरीतप्रशापनादिना तिनेष्वचेतनेषु वाऽननुरूपं चेष्टमानोऽनुरूपचेष्टनेऽपि भाविनमपायमपरिहरनियमतोऽशुभकर्मणा बध्यते, परेषु त्वनिष्टाप्तिहेतुः स स्यानवेत्यनेकान्तः, अचेतनेषु न स्याच्चेतनेषु तु स्यादपीतिभावः । ननु परेष्वहितयोगस्यानकान्तिकत्वे कथं तत्कत्तुरनिष्टाप्तिहेतुत्वमै कान्तिकं प्रकारान्तरचेष्टनम्येत्याशङकयाह टी०...दर्शनबोधादिविपर्यासप्रयुक्तमिथ्याप्रज्ञापनादि-हेतपूर्वायां चेतनाऽचेतनान्यतरविषयकविपरीतचेष्टायां सत्या, अनुरूपचेष्टायामपि भाध्यपायाऽपरिहारात तत्तद्विपरीतचेष्टावानवश्यमशुभपापकर्मणा बध्यते. परविषयान् (कार्यरूपान्) प्रति त्वशुभकर्मबन्धहेतुमान् भवति, स (विपर्यस्तबोधादिमान्) अनिष्टाप्तिहेतुमान् स्यानवेत्यनेकान्तः, अचेतनेषु विषयेषु न ‘स्याच्चेतनेषुविषयेषु स्यादपीति भावः । ननु विपरीतबोध-विषयभूत-चेतनाचेतनपदार्थेषु, अहितयोगः-अशुभकर्मबन्ध:, अनेकान्तिकः-अनियतोऽस्ति, अर्थाच्चेतने स्यादचेतने न स्यादित्यनयत्यं, ततो विपरीतप्ररूपणादिक्रियाक विपरीतक्रिया, अहितयोगं प्रत्येकान्तेन-नियतत्वेन हेतुः कथं ? विपरीतबोधविषयगताऽनिष्टप्राप्तिनियता नास्ति, तदा तादशपदार्थविषयक विपरीत-बोधादिक्रिया, विपरीत-क्रियाकारके, कर्तरि कथमनिष्टप्राप्तौ जनकत्वेन नियता स्यादिति चेत् कथ्यते, आगमस्य (अपवादरूप-जिनवचनस्याथवा यथार्थबोधरूपस्य) आदेशं विना, विपरीतदर्शनादिरूपाशुभकर्मकारणादर्थादशुभकर्मबन्ध प्रति (कार्यप्रति) विपरीतदर्शनप्ररूपणादि-क्रिया कारणमिति कार्यकारणभावे निश्चितेऽर्थात- पापहेतोरपि, अशुभकर्मबन्धो जायते (पापहेतद्वारा परेषु विषयेषु, अपायादनिष्टात् पुनः परेषु विषयषु पापकर्मभवनमेवेत्यपिशब्दार्थः) अत्रेदं हार्दम् = आगमस्यादेशं गृहीत्वा क्वचिद्, अपवादे (कारणिके पदे) पापस्य हेतुष्वपि जीवहिसादिषु प्रवृत्ति कुर्वन् पापकर्मणा न लिप्यते. अन्यथा = आगमादेशं वर्जयित्वा, पापहेतुषु प्रवृत्ती अथवा विपरीतदर्शनप्ररूपणादिक्रियारूपायां प्रवृत्तौ सत्यां परेषु-विषयेष प्रत्यपायस्य (महानिष्टअशुभस्य) अभावेऽपि स्वप्रमाद-विपरीतदर्शनप्ररूपणादिरूपस्वप्रमाद (आत्मविषयकाज्ञानता-अन ___ 120
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy