________________
ललितविस्तरा-सटीका
स्वरूपं सामान्यमेकं सत्त्वं नास्ति, तथैकान्तेन विशेषव्यक्ति - विशिष्टतारूपमनेकं नास्ति, परन्तु, एकानेकस्वभावं वस्तु इति सिद्धमेव.
एवं - एकस्वभावे सामान्यात्मके वा विशेषात्मके वा वस्तुनि अनेकदोषापत्तिसम्भवेन विचित्ररूपे - सामान्यविशेषात्मकेऽनन्तधर्मावच्छिन्ने वस्तुनि सिद्धे, विजातीययोपमया - पुंडरीकादिरूपविरुद्धजातीयोपमानेन, अर्पित-संक्रान्त- परस्परपरिवर्तित-धर्माणां परस्पर निराकरणरूपो = परस्परधर्मपरिवर्तनरूपनिराकरणरूपो, विरोधो न-अर्थात् पुंडरीकोपमानं, उपमेयभूतोऽर्हन्, एवं उपमानोपमेयगतधर्माणां, उपमाद्वारा परस्परसंक्रान्तिभवनेन, उपमानोपमेययो द्वयो नियतधर्माणां लोपः - अभावो भविष्यति, एवंरूपी यो विरोधो दर्शितः स नास्ति यतोऽभिन्ननिमित्तत्वस्याभावो वत्तंते, निमित्तमेकमभिन्नं नास्ति, परन्तु अनेकानि - भिन्न भिन्ननिमित्तानि वर्त्तन्ते तथाहि यदि, उपमेयवस्तुगते, एकस्मिन्नेवाभिन्न एव धर्मे निमित्ते सति, सजातीयाया वा विजातीयाया वोपमायाः प्रयोगः कृतः स्यात्तदा ततः पूर्वोक्तो मिथो धर्मसङक्रांति - द्वारा परस्परधर्माभावरूपो बिरोधः सञ्जायेत, परन्तु विसदृशा (उपमेयगतै काभिन्नैकसमाना, नापितु ) अनेके भिन्ना धर्मा यत्र निमित्तभूताः सन्तीदृश्योऽनेका उपमा ( सजातीया वा विजातीया वा) सन्तु, तथापि पूर्वोक्तो मिथो धर्माभावरूपविरोधलेशोऽपि न सम्भवतीति.
एवं शक्रस्तवस्याष्टमपदव्याख्यायाः समाप्तिः ||
एते च यथोत्तरं गुणक्रपाभिधानवादिभिः सुरगुरुगिनेयैर्हीनगुणोपमायोग एवाधिकगुणोपमा इष्यन्ते,
पं०... '... 'ययोत्तरमित्यादि' यथोत्तरं गुणानां - पुरुषार्थोपयोगि जीवाजीवधर्माणां गुणस्थानकानामिव क्रम उत्तरोत्तरप्रकर्षलक्षणस्तेनाभिधानं भणनं वदन्तीत्येवंशीलास्तैः 'सुरगुरुविनेयैः' बृहस्पतिशिष्यं : हीनगुणोपमायोग एव' हीनगुणोपमयोपमित एव गुणे हीनयुण इत्यर्थः 'अधिकगुणोपमार्हा इष्यन्ते' अधिकगुणोपमोपन्यासेनाधिको गुण उपमा युक्त इत्यर्थः तथाहि गन्धगजोपमाया महाप्रभावशक्रादिपुरुषमात्रसाध्ये मारीतिदुर्भिक्षाद्युपद्रवनिवर्त्तकत्वे भगवद्विहारस्य साधिते पुण्डरीकोपमया भुवनाद्भुतभूता अतिशयसम्पत्- केवलज्ञानश्रीप्रभृतयो निर्वाणप्राप्तिपर्यवसाना गुणा भगवतामुपमातु ं युक्ता इति, कुत इत्याह
टी०... किञ्चते - अर्हतो भगवन्तो विशेष्यरूपाः, यथोत्तरं उत्तरं - अग्रगमपेक्ष्य गुणानांपुरुषार्थोपयोगित्वेन गुणरूपजीवाजीवधर्माणा गुणस्थानकानामिव होनगुणानां पृष्ठगं स्थानं ततोऽधिकगुणानामग्रग स्थानमित्येवं पूर्वानुपूर्वीक्रमेण, (मिथ्यात्व - सास्वादन - मिश्रा - विरति - देशविरति प्रमत्त - अप्रमत्त - निवृत्ति - अनिवृत्ति - सूक्ष्मसम्पराय -- उपशान्त -- क्षीणमोह -- सयोगिकेवलि -- अयोगिकेवलि नामक चतुर्दशगुणस्थानकानां ) यथाक्रमः - उत्तरोत्तर - प्रकर्षरूपो विद्यते तथा गुणानां क्रमिक वृद्धि
101