SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ कलितविस्तरा-सटीका एव मान्यत्र, नानाधर्मशून्यवस्तुमते जीवत्वादिनानावस्तुस्वरूपं बाधितं भवतीति. न च 'एकस्वभावं-सामान्यात्मक वस्तु, नानेकस्वभावं वस्तु, अर्थाद् वस्तुनः स्वरूपमेकमेव सत्त्वं (सत्तारूपमहासामान्यं) वर्तते सत्त्वाऽनतिक्रामकाः सत्त्वाऽभिन्नाः सत्त्वमहाकुक्षिस्थिता अमूर्त्तत्वचेतनत्वाद्या अनेके धर्माः सन्ति, जीवादिवस्तुनि केवलं सत्त्वं विद्यमानमस्ति, तादृशमते-अमूर्त्तत्वचेतनत्वादिरहिते केवल-अविशिष्ट-जीवादिवस्तुनि सत्त्वाऽभिन्नजीवत्वादिरूपवस्तुस्वरूपस्याभावः, कथं ? इति वाच्यम्, सर्वत्र तत्प्रसङगात् = शुद्धसंग्रहनयाभिमतं सत्तामात्रमेव [यद् वस्तुनः स्वरूपं सामान्यमस्तीति ग्रहणतत्पराध्यवसायविशेषः संग्रहनयः, वेदान्तिमतम्-अथवा नैममादिनयद्वारा ज्ञातार्थसंग्रहकुशलाध्यवसायः संग्रहनयः, तथा चाशेषविशेषेपूदासीनः सत्तामात्रमेव सुद्धद्रव्यं मन्यमानः 'परसंग्रहः' यथा विश्वं विश्वमेकं सत् सद्रूपतापेक्षयाऽखिलं निश्वमेकमिति मन्यते. एवं चैकान्तेन सत्ताऽद्धतं प्रतिपद्यमानोऽशेषान् विशेषान् निरस्यन् 'परसंग्रहाभासः' कथ्यते, सत्तैव तत्त्वमस्ति, यतः सत्तात: पृथग्-भूतानां विशेषाणामदर्शनं] जीवादिगतममर्त्तत्वचेतनत्वादिकं वर्त्तते इति मतं न प्रामाणिकं यतः केवलसत्तामेव जीवादिगतचेतनत्वादिधर्मभिन्नत्वेन, महासामान्यं, निशेषधर्माऽभिन्नत्वेन. सामान्यधर्मविशेषधर्मयोरेकत्वेन सर्वथा मान्यतायां, सर्वत्र घटादिसमस्तवस्तुनि, अमूर्तत्वचेतनवाढ़ेः प्राप्तिरापत्ति वा स्यातु, तथाहि घटादिमूर्तपदार्थे सताया विद्यमानत्वेनामूर्तत्वचेतनत्वादिधर्माणां प्राप्तिरापत्ति र्वा स्याद् यतोऽमूर्तत्वचेतनत्वादिना सह सर्वथाऽभित्रसत्त्वरूपं वस्तूस्वरूपमेकं ध्रुवं विद्यत एवेति. तथैवामूर्तजीवादी मूर्तत्वाचेतनत्वादि धर्माणां प्राप्तिरापत्ति वा भवेतू. यतस्ततापि मूर्तत्वादिना सह सर्वथाऽभिन्नसत्त्वेकरूपस्य वस्तुस्वरूपस्य विद्यमानत्वं किञ्च सर्वे पदार्थाः केवलाभेदसम्बन्धेन सत्त्वेकरूपा इति मान्यतायां मूर्तघटादिपदार्थेषु प्रत्यक्षतोऽनुभूयमानमूर्त्तत्वाचेतनत्वाद्यानां धर्माणामभावे सत्येव . तत्प्रतिपक्षभूतामूर्तजीवादिपदार्थेषु, अमूर्त्तत्वचेतनत्वाद्याना धर्माणामप्यभावः प्रसजति, तथा च लोकप्रतीति-बाधा (प्रतीतिव्यवहाराभ्यामर्थसिद्धिरिति न्यायेन लोके लोकेषु वा प्रतीयमान-मूतमूर्तेषु मूर्तत्वामूतत्वाचेतनत्वचेतनत्वादीनां सत्त्वभिन्नाना, सत्त्वैकरूपत्वमते बाधा प्रसज्येताऽतो लोकप्रतीतिबाधा न स्यादित्येवंरीत्या वर्तने, नानाधर्मविशिष्टं वस्तु प्रतिपत्तव्यमेव) अर्थादविशिष्टंकेवलसत्त्यं पूर्णकषितन्याययुक्तिमुद्रयाऽमूर्तत्वादिरूपं न भवति परन्तु सत्त्वादिना धर्मविशिष्टं वस्तु वर्तते इति साधितं. एवं च मूर्तत्वाधयोगः, सस्वविशिष्टताऽपि न, विशेषणमन्तरेणातिप्रसङगाद, एवं नाभिन्ननिमित्तत्वादृते विरोध इति पुरुषवरपुण्डरीकाणि, ८ । पं०...एवं च' सत्त्वमानाभ्युपगमे च 'मूत्तत्वाद्ययोगो' मूर्तत्वाचैतन्याद्यभावः, तद्भाव च तत्प्रतिपक्षरूपत्वादमूर्तत्वादीनामप्यभावः प्रसजति, तथा च लोकप्रतीतिबाधा। अत्रैव मतान्तरं निरस्यन्नाह-'सत्त्वविशिष्टताऽपि न' विशिष्टं स्वपरपक्षव्यावृत्तं सत्त्वमपि बौद्धाभिमतं न-नवामूर्तत्वादित्यनुवर्तते, अविशिष्ट सत्त्वं प्रागुक्तयुक्तेरमूर्तत्वादि न भवत्येवेत्यपि शब्दार्थः, कुन इत्याह-विशेषणं-भेदकमन्तरेण--विना 'अतिप्रसङगाद्' अतिव्याप्तः 99
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy